________________
न्यायकोशः।
७४३ योधर्मविकल्पात् (गौ० ५।१।४ ) इत्यादौ। ३ द्वैविध्यम् । यथा विकल्पसमा जातिः इत्यादौ (गौ० वृ० ५।१।४)। ४ विभिन्नः कल्पः। ५ विविधः कल्पः। ६ पक्षान्तरबोधकः शब्दः । यथा व्रीहिभिर्वा यवैर्वा यजेत इत्यादिः। विकल्पो द्विविधः व्यवस्थितः ऐच्छिकश्च । सोप्याकाङ्क्षाविरहे युक्तः । तथा च भविष्ये स्मृतिशास्त्रे विकल्पस्तु आकाडापूरणे सति इति । इच्छाविकल्पेष्टौ दोषा यथा प्रमाणत्वाप्रमाणत्वपरित्यागः प्रकल्पने। प्रत्युज्जीवनहानिभ्यां प्रत्येकमष्टदोषता ॥ इति । व्रीहिर्यजेत यवैर्यजेत इति श्रुतिः । तत्र व्रीहिप्रयोगे प्रतीतयवप्रामाण्यपरित्यागः अप्रतीतयवाप्रामाण्यपरिकल्पनम्। प्रयोगान्तरे यव उपादीयमाने परित्यक्तयवप्रामाण्योज्जीवनम् स्वीकृतयवाप्रामाण्यहानिरिति चत्वारो दोषाः । एवं वीहावपि चत्वारः इत्यष्टौ दोषा इच्छाविकल्पे। व्यवस्थितविकल्पस्तु उपोष्य द्वे तिथी इति । अत्र अष्टदोषभिया नेच्छाविकल्पः । किं तु व्यवस्थितविकल्प एव इति विज्ञेयम् (वाच० )। ७ योगशास्त्रज्ञास्तु चित्तवृत्तिविशेषः । यथा शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ( पात० सू० पा० १ मू० ९) इत्यादी इत्याहुः। ८ भ्रान्तिः। ९ पक्षतः
प्राप्तिश्च । १० कल्पनम् ( मेदि० ) ( वाच०)। विकल्पसमः---(जातिः) [क] साधनधर्मयुक्त दृष्टान्ते धर्मान्तरविकल्पा. साध्यधर्मविकल्पं प्रसजतो विकल्पसमः । यथा आत्मा सक्रियः क्रिया
हेतुगुणवत्त्वाल्लोष्टवत् इत्यादौ । क्रियाहेतुगुणयुक्तं किंचिद्गुरु । यथा लोष्टः । किंचिल्लघु । यथा वायुः । एवं क्रियाहेतुगुणयुक्तं किंचिक्रियावत्स्याद्यथा लोष्टः। किंचिदक्रिय यथा आत्मा । विशेषो वा वाच्य इति ( वात्स्या० ५।१।४ ) । क्रियाहेतुगुणश्चात्र क्रियाजनकवायुसंयोगादिरेव ( नील० पृ० ४३ )। विशेषो वाच्य इत्यस्यायमर्थः पूर्वविकल्पो भवति अयं तु न भवति इत्यत्र किं नियामकं स्यात् ( नील० पृ० ४३ ) इति । अत्र सूत्रभागः साध्यदृष्टान्तयोधर्मविकल्पादुभयसाध्यत्वाच्च विकल्पसमः ( गौ० ५।१।४ ) इति । तदर्थस्तु पक्षे दृष्टान्ते च यो धर्मस्तस्य विकल्पो विरुद्धः कल्पो व्यभिचारित्वम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org