________________
__ न्यायकोशः। प्राह्यम् । आकाशत्वं च शब्दसमवायिकारणत्वम् । तच्च शब्दनियतपूर्ववृत्तित्वघटितमिति भावः। द्वितीयोदाहरणे कुलालं (पुत्र) प्रति पूर्ववृत्तित्वे
ज्ञाते एव घटं प्रति कुलालपितुः पूर्ववृत्तित्वग्रहाद्धटं प्रति कुलालपिता• न्यथासिद्ध इति भावः ( त• कौ० ७) । तृतीयः-अन्यत्र क्लृप्तनियत
पूर्ववृत्तिनैव कार्यसंभवे तत्सहभूतोन्यथासिद्धः । यथा पाकजस्थले गन्धं - प्रति रूपप्रागभावः । यथा वा घटविशेष प्रति दैवादागतो रासभः (त.
कौ०७ ) (त० दी० १६)। आये अपाकजस्थले गन्धं प्रति क्लुप्तनियतपूर्ववर्तिना गन्धप्रागभावेनैव पाकजस्थलेपि गन्धात्मककार्यसंभवे रूपप्रागभावोन्यथासिद्धः (नील० १६) । द्वितीये घटविशेषादन्यत्र घटान्तरे क्लृप्तनियतपूर्ववृत्तिदण्डचक्रादेरेव घटविशेषस्यापि संभवे दण्डचक्रादिसहभूतो दैवादागतो रासभोन्यथासिद्धः (त० कौ०. ७) । प्रकारान्तरेणान्यथासिद्धं पञ्चविधम् । यत्कार्य प्रति कारणस्य पूर्ववृत्तित्वं येन रूपेण गृह्यते तत्कार्य प्रति तद्रूपमन्यथासिद्धम् । यथा घटं प्रति दण्डत्वम् । अत्र घटं प्रति दण्डस्य कारणत्वं दण्डत्वेनैव गृह्यत इति दण्डत्वमन्यथासिद्धमिति बोध्यम् ( १ ) । यस्य स्वातत्र्येणान्वयव्यतिरेको न स्तः किं तु स्वकारणमादायान्वयव्यतिरेको गृह्येते तदन्यथासिद्धम् । यथा घटं प्रति दण्डरूपम् । अत्र दण्डरूपस्य स्वातव्येणान्वयव्यतिरेको दण्डरूपसत्त्वे घटसत्त्वं दण्डरूपाभावे घटाभाव इति न स्तः । किंतु दण्डरूपस्य कारणं दण्डमादायैवान्वयव्यतिरेको दण्डसत्त्वे घटसत्त्वं दण्डाभावे घटाभाव इति गृह्यते इति घर्ट प्रति दण्डरूपमन्यथासिद्धमिति बोध्यम् (२)। अन्यं प्रति पूर्ववृत्तित्वं गृहीत्वैव यस्य यत्कार्य प्रति पूर्ववृत्तित्वं गृह्यते तस्य तत्कार्य प्रत्यन्यथासिद्धत्वम् । यथा घटादिकं प्रत्याकाशस्य (;३)। यत्कार्यजनकं प्रति पूर्ववृत्तित्वं गृहीत्वैव यस्य यत्कार्य प्रति पूर्ववृत्तित्वं गृह्यते तस्य तत्कार्य प्रत्यन्यथासिद्धत्वम् । यथा घटं प्रति कुलालपितुः
(४)।[क] अवश्यक्लप्तनियतपूर्ववृत्तिन एव कार्यसंभवे तद्भिन्न- मन्यथासिद्धम् । यथा घटादिकं प्रति रासभादीति ( भा० ५० श्लो० : १९-२२) (मु० ११५४ ) । [ख] यस्यानुकूलतर्काभावः सोन्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org