________________
न्यायकोशः। न भुङ्क्त इत्यादौ रात्रिभोजनानङ्गीकारे रात्रिभोजनाभावप्रयोज्यपीनत्वासंभवात्मिका पीनत्वान्यथानुपपत्तिः । अत्र दिवा अभोक्तुदेवदत्तस्य पीनत्वं रात्रिभोजनं विनानुपपन्नम् (असंभवि ) इति ज्ञानादिवा भोजनाकर्तृवृत्तिपीनत्वेन रात्रिभोजनं कल्प्यते । तथा च भोजनस्य ( साध्यस्य ) पीनत्वव्यापकतया व्यापकाभावस्य च व्याप्याभावव्याप्यतया साध्याभाव-(रात्रिभोजनाभाव-) व्यापकीभूताभाव-(दिवा भोजनाकर्तृवृत्तिपीनत्वाभाव-) . प्रतियोगित्वरूपव्यतिरेकव्याप्तिज्ञानात् देवदत्तो रात्रिभोजी इत्यनुमितिरूपार्थापत्तिरुदेति (वाच०)। इदं चार्थापत्तिप्रमाणमनुमान एवान्तर्भवतीति विज्ञेयम् । अत्रानुमानं च देवदत्तो रात्रिभोजी दिवा अभुञ्जानत्वे
सति पीनत्वात् इति बोध्यम् । अन्यथासिद्धः-अवश्यक्लप्तनियतपूर्ववर्तिन एव कार्यसंभवे तत्सहभूतः ।
यथा अवश्यक्लप्तनियतपूर्ववर्तिभिर्दण्डादिभिरेव घटरूपकार्यसंभवे तत्सहभूतं दण्डत्वं घटं प्रति अन्यथासिद्धम् ( सि० च० २० ) (प्र. प्र०)। अन्यथासिद्धस्त्रिविधः । तत्र प्रथमः- येन सहैव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तेन तं प्रति सोन्यथासिद्धः । यथा तन्तुना तन्तुरूपं तन्तुत्वं च पटं प्रति अन्यथासिद्धम् । यथा वा घटं प्रति दण्डेन दण्डरूपं दण्डत्वं चान्यथासिद्धम् । दण्डेन सहैव दण्डरूपस्य दण्डत्वस्य च घटं प्रति पूर्वभावग्रहात् । अत्र सहितत्वमेकज्ञानविषयत्वमिति बोध्यम् । किं च येनेत्यस्य स्वतत्रान्वयव्यतिरेकशालिना इति यस्येत्यस्य तु स्वतत्रान्वयव्यतिरेकशून्यस्य इति च विशेषणं बोध्यम् । तेन नातथाभूतेन तन्तुत्वेन तन्तोरन्यथासिद्धिः । न वा तन्तुसंयोगस्य तन्तुना सहान्यथासिद्धिरिति । परे तु इतरान्वयव्यतिरेकप्रयुक्तान्वयव्यतिरेकशालि यत्तद्न्यथासिद्धमित्याहुः ( नील० १६ )। द्वितीयः-अन्यं प्रति पूर्ववृत्तित्वे ज्ञात एव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तं प्रति सोन्यथासिद्धः । यथा शब्दं प्रति पूर्ववृत्तित्वे ज्ञात एव घटं प्रत्याकाशस्य पूर्ववृत्तित्वग्रहात् घटं प्रत्याकाशोन्यथासिद्धः । एवं कुलालपितापि पुत्रकृतघटं प्रत्यन्यथासिद्धः। अत्राद्योदाहरणे आकाशस्याकाशत्वेन घटं प्रति पूर्ववृत्तित्वं न्या. को०६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org