SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। ७४१ निवृत्त्यनुकूलव्यापारो वारणम् । यथा परस्वेभ्यः पाणिं निवारयतीत्यत्र निवारणम् । अत्र धात्वर्थघटकनिवृत्तौ पाण्यादेरवच्छेदकत्वेन परस्वादेश्च प्रकारत्वेनान्वयः । तादृशव्यापारः कराकुम्चनादिरेव (श० प्र० श्लो०६८ पृ० ८३ )। कचिच्च संयोगाभावनिष्ठस्य प्रयोजकव्यापारः। यथा स्वाङ्गाद्वाणं वारयतीत्यादौ वारयत्यर्थो वारणम् । अत्र धात्वर्थघटके संयोगे द्वितीयान्तलभ्यस्य बाणप्रतियोगिकत्वस्य संयोगाभावनिष्ठे च पञ्चम्यन्तलभ्यस्य स्वाङ्गवृत्तित्वस्यान्वयः । कार्याभाव इव तन्निष्ठेधिकरणविशेषवृत्तित्वेपि प्रतिबन्धकस्य प्रयोजकत्वात् । अत एव मणिः काष्ठे दाहाभावस्य प्रयोजकः न तु पाथसि इत्यादिकः सार्वलौकिकव्यवहारः इति । तथा च बाणसंयोगाभावनिष्ठायाः स्वाङ्गवृत्तितायाः प्रयोजकबाणापसरणादिरूपव्यापारानुकूलकृतिमान् इत्याकारकस्तत्र बोधः (श० प्र० श्लो० ६८ टी० पृ० ८३-८४ )। वारुणम्-शततारका नक्षत्रम् (पु० चि० पृ० ३५४ )। वारुणी-चैत्र कृष्णत्रयोदश्यां शततारका नक्षत्रं चेत्सा वारुणीत्युच्यते । महावारुणीशब्दे दृश्यम् । वार्तिकम्-उक्तानुक्तदुरुक्तानां चिन्ता यत्र प्रवर्तते । तं ग्रन्थं वार्तिकं प्राहु वार्तिकज्ञा मनीषिणः ॥ इति ( वाचस्पत्ये पराशरपु० अ० १८ )। वार्षिकम्-वर्षाकाले भवं वार्षिकम् । वर्षाकालश्च श्रावणभाद्रपदमासौ ( पुरु० चि० पृ० २९६ )। वासना-१ ( गुणः ) स्मृतिहेतुः संस्कारविशेषः ( जटा० )। २ शक्ति विशिष्टचित्तोत्पादः ( न्या० वा० १।१।१० पृ० ६९ )। ३ मिथ्याज्ञानजन्यो गौरोहम् इत्यादिमानसज्ञानजनको दोषविशेषः । यथा आत्मा देहाद्यभिन्नः इति (ग० २ हेत्वाभा० सामान्य० )। ४ एकसंतानवर्तिनामालयविज्ञानानां तत्तत्प्रवृत्तिजननशक्तिः इति विज्ञानवादिनो बौद्धा आहुः ( सर्व० पृ० ३७ बौद्ध०)। ५ ग्रहस्पष्टीकरणाद्युपयोगी संस्कारविशेषः इति ज्योतिःशास्त्रज्ञा गणका आहुः । ६ ज्ञानम् । ७ प्रत्याशा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy