________________
न्यायकोशः। . विषप्रकारकनिवृत्तेः अनुकूलव्यापारवान् इत्याकारकस्तत्र बोधः । अत्र तथाविधनिवृत्त्यनुकूलव्यापारश्च स्वार्थधीद्वारा कूपे मा पत विषं मा भुन इत्याद्यभिलापरूपः स्फुट एव ( श० प्र० श्लो० ६८ टी० पृ० ८३ )। अथ वा अभावानुकूलव्यापारो धात्वर्थः । पञ्चम्या वृत्तित्यमर्थः । तस्यान्धेन्वयः । द्वितीयाया अनुयोगित्वं प्रतियोगित्वं वार्थः । तस्य च धात्वर्थतावच्छेदकीभूताभावेन्वयः । अभावश्च कूपादिसमभिव्याहारात् पतनादिजन्याधःसंयोगादिसंबन्धेन । तथा च कूपवृत्त्यन्धप्रतियोगिकाभावानुकूलव्यापारविषयकयत्नवान् इति वाक्यार्थः । एवम् एतस्माद्विषान्नादमुं मित्रं वारयति इत्यादावप्यूह्यः (का० व्या० पृ०१०)। [ख ] क्रियाप्रतिषेधः । यथा यवेभ्यो गां वारयति कूपादन्धं वारयतीत्यादौ धात्वर्थो वारणम् ( ग० व्यु. का० ५ पृ० १०७ ) । अत्र क्रिया च भक्षणगमनादिरूपा । तस्याः प्रतिषेधस्तु कर्तृत्वाभावानुकूलव्यापारः। कर्तृत्वाभावरूपधात्वर्थतावच्छेदकफलशालितया गवान्धादेः कर्मता संपद्यते । अत्र वारणार्थानामीसितः ( पा० सू० १।४।२७) इत्यनेनापादानत्वम् । तदर्थश्च वारणं क्रियाप्रतिषेधः । तदर्थकधातुयोगे तत्तत्क्रियाजन्यफलभागितया तत्तक्रियाकर्तुरभिप्रेतः अपादानम् इति । यद्वा यवादिपदोत्तरपञ्चम्यर्थः यवादिगतत्वेनेच्छाविषयफलकत्वम् । तस्य भक्षणादावन्वयः । इच्छा च क्रियाकर्तृनिष्ठा । एवं च यवकूपादिनिष्ठत्वेन गवान्धादीच्छाविषयो यो गलाधःसंयोगोत्तरदेशसंयोगादिः गवादिनिष्ठतत्तत्फलकव्यापारविशेषकर्तृत्वाभावानुकूलव्यापारानुकूलकृतिमान् इत्याकारको बोधः ( ग० व्यु० का० ५ पृ० १०७ )। मञ्जूषायां चैवमुक्तम् । अभावप्रतियोगिव्यापारजन्यफलाश्रयोत्रापादानम् । वारणार्थानाम् इति सूत्रात् । वारणार्थधात्वर्थफलाश्रयत्वमञप्सितत्वम्। तेन भक्षणसंयोगाद्याश्रयत्वाद्यवादीनामपादानत्वम् । [ग] शाब्दिकाश्च प्रवृत्तिविघातो वारणम् । स च संयोगाद्यनुकूलव्यापाराभावानुकूलो व्यापारः। यथा यवेभ्यो गां वारयति अग्नेर्माणवकं वारयति कूपादन्धं वारयति इत्यादौ भक्षणसंयोगादिजनकव्यापाराभावानुकूलो व्यापारो वारयत्यर्थः इत्याहुः ( ल० म० सुबर्थ० पृ० १०९)। कचित् आनयनधर्मिक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org