________________
७३९
न्यायकोशः। प्रति महत्त्वविशिष्टविभुव्यावृत्तविशेषगुणः महत्त्वविशिष्टोद्भूतरूपोद्भूतस्पर्शान्यतरद्वा कारणम् इति कार्यकारणभावो ज्ञेयः (सि० च० पृ०८ )। बहिर्दव्यप्रत्यक्षं प्रति आत्मावृत्तिशब्दभिन्नविशेषगुणवत्त्वं प्रयोजकम् इति वा कार्यकारणभावः । तेन वायोः प्रत्यक्षत्वमुपपद्यते । वायुं स्पृशामि इत्यनुभवाच्च । अत्रेदमधिकं ज्ञेयम् यथा प्रभागतमेकत्वं गृह्यते तथा वायुगतमेकत्वमपि गृह्यत एव । क्वचित् सजातीयसंवलनाभावे द्वित्वपरिमाणादीनि गृह्यन्ते । तद्गृहश्च भूयोवयवावच्छेदेन त्वगिन्द्रियसंनिकर्षस्थले बोध्यः । कचित् संख्यापरिमाणाद्यग्रहः सजातीयसंवलनादिरूपदोषात् इति । सजातीयसंवलनदशायाम् भूयोवयवावच्छेदेन त्वगिन्द्रियसंनिकर्षाभावे च इत्यर्थः ( दि० १ वायुनि० पृ० ११४ ) । फूत्कारादिरूपे वायौ संख्याधुपलभ्यत इत्यप्यत्र बोध्यम् (वै० उ० २।१।९ पृ० ८३ ) (त० व० ३।४६ )। मीमांसका अपि वायुर्बाह्येन्द्रियप्रत्यक्ष इत्यङ्गीचक्रुः ( प० मा० )। तन्मते महदुद्भूतस्पर्शवद्व्यमेव त्वचो योग्यम् न तु केवलमुद्भूतरूपवद्रव्यम् इति कार्यकारणभावे निवेश्यमिति भावः (म० प्र० १०)। एतन्मते प्रभाया अप्रत्यक्षत्व इष्टापत्तिरेव शरणम् इति मन्तव्यम् । तन्न योग्यम् । इह पक्षी नेह पक्षी इति प्रतीतेः प्रभामण्डलरूपदेशविषयिण्याः सर्वानुभवसिद्धायाः संभवात् ( म० प्र० १ पृ० ११ ) इति । पाश्चात्यास्तु प्राणाख्यं वायुं जलस्य समवायिकारणमङ्गींचक्रुः । २ उत्तरपश्चिमविंदिगधिपतिर्देवताविशेषः इति पौराणिका आहुः । ३ देहस्थधातुविशेषः इति भिषज आहुः । ४ परमात्मैव इति वेदान्तिनः प्राहुः । वायुत्त्रं च त्वगिन्द्रियसमवेतत्वे सति द्रव्यत्वसाक्षाव्याप्यजातिः ( सर्व० सं० पृ० २१८ औ० )। वारणम्-[क] क्रियाधर्मिकनिवृत्त्यनुकूलव्यापारः । यथा कूपादन्धं
वारयति विषाद्वालं निवारयतीत्यादौ धात्वर्थो वारणम् । क्रिया च पतनभोजनादिविशेषतो ग्राह्या । अत्र धात्वर्थघटकनिवृत्तौ पञ्चम्या कूपादिप्रकारकत्वम् द्वितीयया चान्धादि निष्ठत्वं प्रत्याय्यते । तथा च अन्धनिष्ठायाः पतनधर्मिककूपप्रकारकनिवृत्तेः बालनिष्ठायाश्च भोजनधर्मिक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org