________________
न्यायकोशः।
७३५ तन्मते कारणमेव कार्यरूपेण परिणमते इति कार्यकारणयोरनन्यत्वम् सत्यत्वं च । यथा दुग्धं सदेव दधिरूपेण परिणमते इति दधि कार्यान्तरं दुग्धाद्भिन्नं च न भवति इति । विवर्तवादो मायावादिवेदान्तिनाम् । तन्मते कारणमेव कार्यस्वरूपेण भासते इति कारणस्यैव सत्यत्वम् न तु कार्यस्य सत्यत्वम् । यथा शंकरभारतीमते शुक्तौ इदं रजतम् इति ज्ञानानन्तरमधिष्ठानभूतशुक्तिज्ञाने जाते बाधज्ञानेन पूर्व ज्ञातं रजतं यथा निवर्तते तद्वत् ब्रह्मज्ञाने जाते सति जगदादिभेदप्रपञ्चो निवर्तते इति । असत्कार्यवादस्तु आरम्भवादः इत्युच्यते । स च नैयायिकानाम् माध्ववेदान्तिनां च । तन्मते असदेव कार्यमुत्पद्यते । यथा पूर्वमसदेव तत्तद्भटादिकार्य दण्डचक्रचीवरादिसामग्रीसमवहितान्मृदादिकारणाद्भिन्नं सदुत्पद्यते इति । अत्रायं भावः । स्वोत्पत्तेः पूर्वं तत् कार्य नासीदेव । पश्चात्कारणसामग्रीवशादुत्पद्यते इति कार्यकारणयोरन्यत्वम् परमार्थतः सत्यत्वं च इति । एवम् विज्ञानवादो योगाचारबौद्धानाम् शून्यवादो माध्यमिकबौद्धानाम् स्याद्वाद आहतानाम् इत्यादिकं च तत्तच्छास्त्राज्ज्ञेय
मित्यत्रैव विरम्यते । वादनम्-अभिघाताख्यसंयोगावच्छिन्नक्रिया । यथा भेरीमृदङ्गं वादयेत्यादौ
णिजन्तवदधात्वर्थः (दि० ४ पृ० १८३ ) । वाद्यभेदा उच्यन्ते । तालेन राजते गीतं तालो वादित्रसंभवः । गरीयस्तेन वादिनं तच्चतुर्विधमुच्यते॥ ततं सुषिरमानद्धं घनमित्थं चतुर्विधम् । ततं तत्रीगतं वाद्यं वंशाचं सुषिरं तथा ॥ चर्मावनद्धमानद्धं घनं तालादिकं मतम् इति । तत्र अलावनीप्रभृति ततम् इत्युच्यते। वंश पारि मधुरी तित्तिरी इत्यादिकं सुषिरम् इत्युच्यते । मर्दल मुरज पटह ढक्का पणव करटक मठ भेरी इत्यादिकम् आनद्धम् इत्युच्यते । घनं तु अनुरक्तविरक्तभेदेन द्विविधम्। करतालकांस्यतालभेदेन द्वादशविधं चेति । अत्राधिकं लक्षणविभागादिकं
तु संगीतदामोदरादौ द्रष्टव्यम् ( वाच० )। वादी-१ [क] प्रकृतसाध्यसाधनाय न्यायप्रयोगकर्ता । यथा पर्वते
वह्निसाधने विपरीतोद्भावकस्य प्रतिवादिनो निवृत्त्यर्थं वादी प्रतिज्ञादि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org