________________
७३४
न्यायकोशः। वाटपरिक्षेपः-शालासमुदायरक्षणाय सर्वतो मार्गप्रतिरोधकं यत्परितः
क्षिप्यते तदुच्यते ( भाष्यप्रदीपोद्योते १।१७ )। वात्स्यायनः-१ न्यायसूत्रभाष्यकारः पक्षिलाख्यो मुनिविशेषः। २ कामशास्त्र
प्रतिपादकसूत्रकर्ता । ३ वत्सगोत्रापत्यं युवा इति वैयाकरणा वदन्ति । वादः-१ ( कथा ) [क] प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः
पश्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः (गौ० १२।१ )। तदर्थश्च प्रमाणाभासत्वप्रकारकज्ञानविषयकरणकसाधनोपालम्भयोग्यान्यः इति । तेन जल्पविशेषे नातिव्याप्तिः। निग्रहस्थानविशेषनियमार्थ सिद्धान्तेत्यादि विशेषणद्वयम् ( गौ० वृ० १।२।१ )। एकाधिकरणस्थौ विरुद्धौ धर्मों पक्षप्रतिपक्षी प्रत्यनीकभावादस्यात्मा नास्त्यात्मेति । नानाधिकरणी विरुद्धौ न पक्षप्रतिपक्षौ । यथा नित्य आत्मा अनित्या बुद्धिरिति । परिग्रहोभ्युपगमव्यवस्था । सोयं पक्षप्रतिपक्षपरिग्रहो वादः । तस्य विशेषणं प्रमाणतर्कसाधनोपालम्भः। प्रमाणैस्तर्कण च साधनमुपालम्भश्चास्मिनिक्रयत इति। साधनं स्थापना। उपालम्भः प्रतिषेधः (वात्स्या० १।२।१)। सूत्रतात्पर्य तार्किकरक्षायामुक्तम् तत्र प्रमाणतर्काभ्यां साधनाक्षेपसंयुता । वीतरागकथा वादस्तत्फलं तत्त्वनिर्णयः ॥ ( ता० २० श्लो० ७७ ) इति । वादश्च अष्टनिग्रहाणामधिकरणम् । ते च न्यूनाधिकापसिद्धान्ताः हेत्वाभासपञ्चकं चेत्यष्टौ निग्रहाः ( त• भा० पृ० ४४ )। [ख] प्रमाणाभासत्वप्रकारकज्ञानविषयकरणकसाधनोपालम्भयोग्यान्यत्वे सति पक्षप्रतिपक्षसाधनोद्देश्यकोक्तिप्रत्युक्तिरूपवचनसंदर्भः (गौ० वृ० १।२।१ ) । [ग ] नानाप्रवक्तृकः प्रत्यधिकरणसाधनोन्यतराधिकरणनिर्णयावसानो वाक्यसमूहः ( वात्स्या० १।१।१ पृ० ८)। [घ] तत्त्वनिर्णयफलः कथाविशेषः (सर्व० पृ० २३९ अक्ष० ) । यथा वादः प्रवदतामहम् (गीता० १०॥३२ ) इत्यादौ । [ङ ] तत्त्ववुभुत्सोः कथा (त० भा० पृ० ४४ ) । २ स्वाभिमतार्थकथनम् । अयं वादो द्विविधः सत्कार्यवादः असत्कार्यवादश्च । तत्र सत्कार्यवादोपि द्विविधः परिणामवादः विवर्तवादश्च । तत्र परिणामवादः सांख्यानाम् रामानुजीयानां च ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org