________________
७३६
न्यायकोशः। घटितपश्चावयवोपेतं न्यायवाक्यं प्रयुङ्क्ते इति । [ख] प्रथमपक्षप्रतिपादकोर्थी इति व्यवहारशास्त्रज्ञा आहुः । २ वादकथाकर्ता । ३ विचार
स्थलम् ( वाच०)। वापः-उदकमिश्रणाय पिष्टस्य पात्रे प्रक्षेपः (जै० न्या० अ० १०
पा० १ अधि० ११)। वायवी—(दिक्) सुमेरुसंनिहिता उदयगिरिव्यवहिता च उत्तरपश्चिमा
दिक (वै० वि० २।२।१० पृ० ११६)। यथा झळकीग्रामतो
वायव्यां मुम्बापुरी। वायुः-१(द्रव्यम् ) [क] वायुत्वसामान्यवान् (त० कौ०) (प्रशस्त० )।
वायुश्च पञ्चमहाभूतान्तर्गतः । [ख] रूपरहितः स्पर्शवान् । अत्र सूत्रम् स्पर्शवान् वायुः (वै० २।१।४ ) इति । तल्लक्षणं च स्पर्शेतरविशेषगुणासमानाधिकरणविशेषगुणसमानाधिकरणजातिमत्त्वम् (वै० उ० २।१।४)। अथ वा रूपाभावे सनि स्पर्शवत्त्वम् (वाक्य० ११४)। समवायेन रूपवदवृत्तिस्पर्शवत्त्वमित्यर्थः ( ल० व० )। अथ वा पाकजस्पर्शवदवृत्त्यनुष्णाशीतस्पर्शवद्वृत्तिद्रव्यत्वसाक्षाब्याप्यजातिमत्त्वम् (दि०१ पृ० ८३ ) । अत्र पृथिवीत्ववारणायावृत्त्यन्तम् । जलत्ववारणाय वृत्त्यन्तम् ( राम० १ वायुनि० पृ० ८३ )। अथ वा त्वगिन्द्रियसमवेतद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम् (सर्व० पृ० २१८ औलू० )। तादृशी जातिश्च वायुत्वम् । वायोरस्तित्वे प्रमाणमाह यद्यपि वायुरतीन्द्रियस्तथापि विलक्षणशब्दात्मककार्यान्यथानुपपत्त्या स स्वीकरणीयः इति (प्र० प्र०)। वायोरप्रत्यक्षत्ववादिमते वायुसिद्धिर्यथा ग्राह्यजातीयविशेषगुणत्वेन स्पर्शवत्त्वाद्रव्यान्तरप्रसक्तित्वेन वायुसिद्धिः ( न्या० ली० पृ० ९ ) इति । योयं वायौ वाति सति अनुष्णाशीतः स्पर्शः प्रतीयते स स्पर्शः कचिदाश्रितः गुणन्द्रुपवत् इत्यनुमानेन किंचिदाश्रितत्वे साधिते यत् किंचित्पदग्राह्यं तदेव वायुः इत्युच्यते (त० दी० ) ( सि० च० वायुनि० पृ० ८)। स चायं वायुर्द्विविधः नित्यः अनित्यश्च। तत्र नित्यः परमाणुलक्षणः । अनित्यः कार्यलक्षणः नाना च । तस्य वायोः अप्रत्यक्ष
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org