________________
७३०
न्यायकोशः। शक्यार्थद्वये संभवति एकार्थनिर्णयैकविशेषाभावादनभिप्रेतशक्यार्थकल्पनेन दूषणाभिधानम् तद्वाक्छलम् (गौ० वृ० १।२।१२) इति । [ख] शक्त्यैकार्थशाब्दबोधतात्पर्यकशब्दस्य शक्त्या अर्थान्तरतात्पर्यकत्वकल्पनया दूषणाभिधानम् । अत्रोच्यते अभिधापरीत्येन कल्पितार्थस्य बाधनम् ( ता० २० १ श्लो० ९५ ) इति । यथा नेपालादागतोयं नवकम्बलवत्त्वादित्युक्ते कुतोस्य नवसंख्याकाः कम्बलाः इति । एवम् गौर्विषाणीत्युक्ते कुनो गजस्य शृङ्गम् श्वेतो धावति इति श्वेतरूपत्रदभिप्रायेणोक्ते श्वेतो (श्वा इतः ) न धावति इत्यभिधानम् इत्यादिकमूह्यम् (गौ० वृ० १।२।१२)। वाक्पारुष्यम्-देशजातिकुलादीनामाक्रोशं न्यङ्गसंयुतम् । यद्वचः प्रति
कूलार्थ वाक्पारुष्यं तदुच्यते ॥ ( मिताक्षरा अ० २।२०४ )। वाक्यम्-[क] पदसमूहः । वाक्यत्वं च विशिष्टार्थपरशब्दत्वम् (चि०४)। वाक्यं द्विविधम् प्रमाणवाक्यम् अप्रमाणवाक्यं चेति। तत्र प्रमाणवाक्यम् आकाङ्क्षायोग्यतासंनिधिमतां पदानां समूहः । यथा गामानय इत्यादि (त० भा० ४ ) (त० सं०) (सा०, द०)। अथवा यादृशशब्दानां यादृशार्थविषयिताकबोधं प्रति अनुकूला परस्पराकाङ्क्षा तादृशशब्दस्तोम एव तथाविधार्थे वाक्यम् ( श० प्र० श्लो० १२ टी० पृ० १४ )। वैयाकरणास्तु एकतिङ् इत्याहुः ( महाभा० ) । एकतिङन्तार्थमुख्यविशेष्यकबोधजनकपदसमूहः इत्यर्थः । तेन पचति भवति पश्य मृगो धावति बेहि ब्रूहि देवदत्त इत्यादौ च क्रियापदस्यानेकत्वेपि नैकवाक्यताव्याघातः इति । सुप्तिङन्तचयो वाक्यम् इत्यमरसिंह आह । केचित्तु स्वार्थबोधसमाप्तः पदसमुदायः इत्याहुः । समभिव्याहारो वाक्यम् इति मीमांसका आहुः । तदर्थश्च साध्यत्वादिवाचकद्वितीयाद्यभावेपि वस्तुतः शेषशेषिवाचकपदयोः सहोच्चारणम् । यथा यस्य पर्णमयी जुहूर्भवति न पाप५ श्लोक शृणोति ( तैत्ति० संहिता० ३।५।७ ) इति । लिङादिपदघटितं वाक्यं द्विविधम् विधिः निषेधश्च । तत्र विधिः स्वर्गकामो यजेत इत्यादि वाक्यम् । निषेधस्तु न कलङ्गं भक्षयेत् न सुरां पिबेत् इत्यादि वाक्यम् (लौ० भा० )। अप्रमाणवाक्यं तु आकाङ्क्षादिरहितं वाक्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org