________________
७२८
न्यायकोशः। वसन्तः-मीनमेषयोर्मेषवृषभयोर्वा वसन्त इति बौधायनोक्तीनादिसौरमास
द्वयात्मको मेषादिसौरमासद्वयात्मको वा वसन्तः (पु० चि० पृ०८)। वसु-१ अष्टमी तिथिः ( पुरु० पृ० ३७ )। २ धरो ध्रुवस्तथा सोम ___ आपश्चैवानिलोनलः । प्रत्यूषश्च प्रभातश्च वसवोष्टौ प्रकीर्तिताः ॥
( मिताक्षरा अ० २ श्लो० १०२ )। वस्तु-संकेतविषयः । यथा घटगगनादि। वस्तुत्वं च प्रमेयत्वम् स्वरूप
संबन्धविशेषो वा ( म० प्र० ख० २ पृ० २३ ) (त० प्र० २ पृ० ३९)। वस्तु द्विविधम् बाह्यम् अबाह्यं च । तत्र आत्मा तद्योग्यगुणास्तद्वृत्तिजातिः स्वर्गापूर्वादि चैतान्यबाह्यवस्तूनि मनसा श्रुत्यनुमानादिना च वेद्यानि च । एतदन्यानि तु बाह्यवस्तूनि । वह--(धातुः ) नयनशब्दस्यार्थीनुसंधेयः (ग० व्यु० का० २ पृ० ४६)। यथा वहति अवाक्षीत् इत्यादौ । अस्य प्रधानकर्मण्येव लकारादयो भवन्ति । गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् । बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया ॥ इत्यनुशासनात् । अत्राधिकं च नयनदोहनशब्दव्याख्याने द्रष्टव्यम् । वहनम्-नयनम् । वह्निः-१ ( तेजः ) अग्निः । यथा पर्वतो वह्निमान् धूमादित्यादौ साध्य
भूतो वह्निः । अयं वह्निस्तु भौतिकः पार्थिवमात्रेन्धनं भौमं तेजः इति विज्ञेयम् । अत्रेदं ज्ञेयम् । वह्नित्वेन धूमत्वेन च सर्वेषां वह्निधूमानां साध्यसाधनभावः । न तु तत्तद्भूमतत्तद्वयादिव्यक्तीनाम् इति । सामान्यप्रत्यासत्त्या तु सकलवह्निधूमानां ज्ञेयता चेति । अग्निभेदादिकमुक्तं यथा जृम्भको दीपकश्चैव विभ्रमभ्रमशोभनाः। आवसथ्याहवनीयौ दक्षिणाग्निस्तथैव च ॥ अन्वाहार्यो गार्हपत्य इत्येते दश वह्नयः इति । अन्यच्च भ्राजको रञ्जकश्चैव क्लेदकः स्नेहकस्तथा । धारको बन्धकश्चैव द्रावकाख्यश्च सप्तमः ॥ व्यापकः पावकश्चैव श्लेष्मको दशमः स्मृतः इति । श्रौते कर्मणि मुख्याग्नयो यथा गार्हपत्यो दक्षिणाग्निस्तथैवाहवनीयकः । एते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org