________________
न्यायकोशः : ।
७२७
·
T
. बुद्धौ वर्तमानत्वात् तथा प्रयोगः इति भावः । तृतीयो नित्यप्रवृत्तः यथा पर्वतास्तिष्ठन्तीत्यादौ । अत्र पर्वतानां स्थितिर्नित्यप्रवृत्ता इति तथा प्रयोगः । एवम् पर्वतानां स्थितत्वेन वर्तमानत्वेपि भूतभविष्यत्कालाभ्यां संबन्धविवक्षया पर्वतास्तस्थुः स्थास्यन्ति इत्यपि प्रयोगः स्यात् इत्यवधेयम् (वाच० ) । सामीप्यरूपः चतुर्थो द्विविधः भूतसामीप्यः भविष्यत्सामीप्यश्वेति । तत्राद्यो भूतसामीप्यः यथा एषोहमागच्छामीत्यादौ । अत्र कदा आगतोसि इति प्रश्ने आगतोपि अध्वस्वेदादेर्वर्तमानत्वात् एषोहमागच्छामि इति वदति इति ज्ञेयम् । द्वितीयो भविष्यत्सामीप्यः यथा एषोहं गच्छामीत्यादौ । अत्र कदा गमिष्यसि इति प्रश्ने गमने क्रियमाणोद्यमपि एषोहं गच्छामि इति बदति इति विज्ञेयम् ( दुर्गादास ) ( वाच० ) । जगदीशोप्याह । लडर्थवर्तमानसामीप्यमपि द्विविधम् वर्तमानक्षणोत्तरकालावच्छेद्यत्वम् वर्तमानक्षणाच्यवहितप्राकालावच्छेद्यत्वं चेति । तेन चैत्रः कदा गमिष्यति इति जिज्ञासायां एष गच्छति इत्युत्तरस्य वर्तमानक्षणोत्तरकालावच्छेद्यगतिमांश्चैत्रः इत्यर्थः । चैत्रः कदा समागतः इति जिज्ञासायां एष आगच्छति इत्युत्तरस्य तु वर्तमानक्षणाव्यवहितप्राक्काला - वच्छेद्यागमनवान् इत्यर्थः इति न प्रश्नोत्तरभावासङ्गतिः इति ( श० प्र० श्लो० ९७ टी० पृ० १४३ ) । अत्र प्रावो वैयाकरणा आहुः । वर्त - मानत्वं च प्रारब्धापरिसमाप्तत्वम् भूतभविष्यद्भिन्नत्वं वा । यथा पचतीत्या अधिश्रयणाद्यधः श्रयणान्ते मध्ये पूर्वापरीभूतक्रियासमुदाये वर्तमानत्वमस्ति इति भवति लट्प्रयोगः (वै० सा० ल० पृ० १२० ) ( ल० म० ) इति । २ शब्दप्रयोगाधिकरणकालवृत्तिः । यथा वर्तमानध्वंसप्रतियोगित्वमतीतत्वम् इत्यादौ ( नील० १ कालनि० पृ० १० ) । वशा - धेनुः ( पुरु० पृ० ६ ) ।
1
वषट् - ( अव्ययम् ) १ स्वाहाशब्दवदस्यार्थोनुसंधेयः । यथा वषडिन्द्रायेत्यादौ ( श० प्र० श्लो० ९३ पृ० १२६ ) । २ वषट् इति करणे 1 यथा वषट्कारं गृणन् द्विजः ( भाग० स्क० ९ ) इत्यादौ । एवम् कार वौषट् इति शब्दौ व्याख्येयो 1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org