________________
७२६
न्यायकोशः। संदिग्धसाध्यकत्वात्सपक्षवृत्तित्वानिश्चयादसाधारणो हेतुः। हेतुः संदिग्धसाध्यकवृत्तिर्यदि न दृष्टान्ते तदा गमकहेत्वभावात्साधनविकलो दृष्टान्तः स्यात् (गौ० वृ० ५।१।४ ) इति । सपक्षवर्तिनो हेतोर्याहा विवक्षितम् । पक्षोपि तादृग्वेतुः स्यादन्यथासिद्धिहेतुता ॥ सपक्षत्वात्तदा साध्य इति वर्ण्यसमा क्षतिः ( ता० र० २ श्लो० १०६-१०७ ) इति । [ग] वर्ण्यस्य स्थापनीयस्य दृष्टान्तधर्मस्य पक्षे साधनम् । यथा आत्मा सक्रियः क्रियाहेतुगुणवत्त्वाल्लोष्टवदित्यादौ क्रियाजनकनोदनाख्यसंयोगवत्त्वाल्लोष्टादेर्भवतु क्रियावत्त्वम् । आत्मनस्तु क्रियावत्त्वे तज्जनकनोद
नाख्यसंयोगवत्त्वमपि स्यादिति ( नील० पृ० ४३ )। वर्तमानः-१ ( कालः ) [क] येन हि वस्तुना यः कालोवच्छिद्यते ‘स तस्य वर्तमानः (वै० उ० २।२।८ ) । यथा इदानी घटोस्ति इत्यादी घटावच्छेदकः धात्वर्थसत्तावच्छेदको वा इदं शब्दवाच्यः कालो वर्तमानः । अत्र तव्यक्तिध्वंसप्रागभावानवच्छिन्नः कालस्तव्यक्तेर्वर्तमानकालः इति ज्ञेयम् (त० कौ० कालनि० पृ० ३)। वर्तमानत्वं च स्थितिः । तच्च प्राक्संबन्धस्वभावरहितस्वरूपत्वम् स्वकार्यप्रागभावसंबद्धं वा। [ख] प्राञ्चस्तु वर्तमानध्वंसप्रागभावाप्रतियोग्यवच्छिन्नः काल इत्याहुः । कालस्य संबन्धमात्रत्वमते अवच्छिन्न इति विशेषणं न देयम् (प० मा० कालनि० पृ० ९२ ) इति । ध्वंसे वर्तमानत्वं तु तत्तच्छब्दप्रयोगाधिकरणकालवृत्तित्वमेव इति निर्वाच्यम् । अतो नात्माश्रयः इति बोध्यम् ( नील० १ कालनि० पृ० १०)। [ग] नव्यान्तु तत्तच्छब्दप्रयोगाधिकरणकालः । यथा पचतीत्यत्र लडर्थः इत्याहुः (ग० व्यु० ल० पृ० १३४ ) (वाक्य० काल० नि० ) ( वै० सा० द० पृ० १२०)। लडर्थवर्तमानकालश्चतुर्विधः प्रवृत्तोपरतश्चैव वृत्ताविरत एव च । नित्यप्रवृत्तः सामीप्यो वर्तमानश्चतुर्विधः ॥ इति । तत्राद्यः वृत्तोपरतः यथा मांसं न खादतीत्यादौ । अत्र आदी प्रवृत्तं मांसभोजनं निवर्तयति इत्यर्थः ( वाच०) । द्वितीयो वृत्ताविरतः यथा इह कुमाराः क्रीडन्तीत्यादौ । अत्र तदानींतनक्रीडनाभावेपि पूर्वक्रीडानां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org