________________
न्यायकोशः।
७२५ श्लो० ४२-४४ ) इति । गौतमेनाप्युक्तम् ब्राह्मणस्याधिकं लब्धम् क्षत्रियस्य विजितम् निर्विष्टं वैश्यशूद्रयोः ( मिता० २ पृ० ६१) ( मनु० ११८८-९१ ) इति । ३ वैयाकरणास्तु अकाराद्यक्षरम् इत्याहुः । एतेषां वर्णानामुत्पत्तिक्रमः शिक्षायां कथितः पाणिनिना आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्क्ते विवक्षया । मनः कायानिमाहन्ति स प्रेरयति मारुतम् ॥ सोदीर्णो मूय॑भिहतो वक्रमापद्य मारुतः। वर्णाञ्जनयते तेषां विभागः पञ्चधा मतः ॥ स्वरतः कालतः स्थानात्प्रयत्नानुप्रदानतः इति । तथा प्राणापानान्तरे देवी वाग्वै नित्यं हि तिष्ठति । स्थानेषु विकृते वायौ कृतवर्णपरिग्रहा ॥ वैखरी वाक् प्रयोक्तृणां प्राणवृत्तिनिबन्धिनी । केवलं बुद्धयुपादाना क्रमरूपानुपातिनी ॥ प्राणवृत्तिमनुक्रम्य मध्यमा वाक्प्रवर्तते । अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा ।। स्वरूपज्योतिरेवातः परा वागनपायिनी ( महाभार० ) (वाच०) इति । वर्णाश्च मतभेदेन त्रिषष्टिश्चतुःषष्टिर्वा शिक्षायामभिहिता वेदितव्याः । गायकास्तु ४ गीतक्रमः ५ तालविशेषश्च इत्याहुः । काव्यज्ञास्तु ६ कुङ्कमम् ७ स्वर्णम् ८ यशः ९ गुणः १० स्तुतिश्च इत्याहुः । ११ कान्तिकाश्च विवाहप्रयोजकनक्षत्रविशेषकृतं वर्णकूटम्
इत्याहुः ( वाच० )। वर्ण्यसमः- ( जातिः ) [क] स्थापनीयो वो विपर्ययादवर्ण्यस्तावेतो
साध्यदृष्टान्तधर्मी विपर्यस्यतो वावर्ण्यसमौ भवतः (वात्स्या० ५।१।४)। अत्र वर्ण्यत्वं वर्णनीयत्वम् । तच्च संदिग्धसाध्यकत्वादि । अयं वर्ण्यसमस्तु असाधारणदेशनाभासः साधनविकलदृष्टान्तदेशनाभासो वा इति ज्ञेयम् ( गौ० वृ० ५।१।४)। [ख] दृष्टान्ते वर्ण्यत्वस्यापादनम् । अत्रायं भावः। साध्यदृष्टान्तयोधर्मविकल्पात् इति । साध्यः साध्यसिद्ध्यभाववान् संदिग्धसाध्यकादिर्वा । तस्य धर्मः संदिग्धसाध्यकादिवृत्तिहेतुः । तस्य विकल्पात्सत्त्वादृष्टान्ते वर्ण्यत्वस्य संदिग्धसाध्यकत्वस्यापादनम् वर्ण्यसमा । तदयमर्थः । पक्षवृत्तिहेतुर्हि गमकः । पक्षश्च संदिग्धसाध्यकः । तथा च संदिग्धसाध्यकवृत्तिहेतुस्त्वया दृष्टान्तेपि स्वीकार्यः । तथा च दृष्टान्तस्यापि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org