________________
७२२
न्यायकोशः। द्विजश्रेष्ठ स लोभः परिकीर्तितः ॥ ( पद्मपु० ) ( वाच० ) इति । यथा लोभश्चेदगुणेन किम् इत्यादौ । [ख] लिप्सातिशयः ( मिताक्षरा
अ० २ श्लो० १)। लौकिकः-(पुरुषः) लोकसाम्यमनतीतो नैसर्गिक वैनयिकं बुद्ध्यतिशयमप्राप्तः ( वात्स्या० १।१।२५ ) । यथा लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः (गौ० १।१।२५ ) इत्यादौ कश्चन ग्राम्यो जनो लौकिकः । अत्र लौकिकत्वं च अप्राप्तशास्त्रपरिशीलनजन्यबुद्धिप्रकर्षत्वम् ( गौ० वृ० १।१।२५ )। लौकिकप्रत्यक्षम्—(प्रत्यक्षम् )[क] लौकिकसंनिकर्षजन्यं ज्ञानं प्रत्यक्षम्
( ल० व०) । यथा घटचक्षुःसंयोगे सति भूतले घटवत्ताज्ञानम् । (मु० २ पृ० १६० )। [ख] षड्विधसंनिकर्षजन्यं प्रत्यक्षम् (त. कौ० १ पृ० ८ )। अत्र प्रत्यक्षे लौकिकत्वं च साक्षात्कारत्वव्यञ्जकविषयताविशेषः । एवम् दोषविशेषजन्यज्ञानेपि लौकिकत्वं विज्ञेयम् (ग० सत्प्र० पृ० १६-१७ )। 'गन्धादेविषयस्य लौकिकत्वं च 'मानसेतरलौकिकसाक्षात्कारविषयत्वम् विषयताविशेषो वा। चक्षुरादीनां षण्णामिन्द्रियाणां लौकिकत्वं तु लौकिकप्रत्यक्षजनकत्वमेव इति चिन्त्यम् । अत्रेदं बोध्यम् । घटाभावव्याप्यवद्भूतलम् इति विशेषदर्शनदशायामपि घटचक्षुःसंयोगे सति लौकिकसंनिकर्षजन्यस्य भूतलं घटवत् इत्यादिप्रत्यक्षस्योदयात् तदुपनीतभानशाब्दबोधादेश्वानुदयाञ्च लौकिकसंनिकर्षाजन्यदोषविशेषाजन्यतद्विशिष्टबुद्धित्वावच्छिन्नं प्रति तदभावव्याप्यवत्तानिश्चयस्य प्रतिबन्धकत्वकल्पनमुचितम् इति । लौकिकवाक्यम्-मानुषादिप्रणीतवाक्यम् । यथा घटमानय इत्यादि
वाक्यम् । अत्र लौकिकत्वं च वैदिकभिन्नत्वम् (वाक्य० ४ पृ० २२ )। लौकिकसंनिकर्षः-प्रत्यक्षविशेषजनकः संयोगाद्यन्यतमः । अत्र संनिकर्षे
लोकिकत्वं चालौकिकसंनिकर्षभिन्नत्वम् संयोगाद्यन्यतमत्त्वं वा । ते च षट् संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेत
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org