________________
न्यायकोशः।
७२१ शोषयाणि इत्यादौ लोडर्थः । समर्थना च पराशक्यधर्मिकस्वशक्यत्वाध्यवसायः । अत्र स्वेतराशक्यं यत् पर्वतोत्पाटनम् तद्धर्मिकस्वशक्यत्वाध्यवसायवान् इत्यन्वयबोधः ( श० प्र० श्लो० ९९ टी० पृ०१४५ )। ५ विधिः। यथा पटमानय इत्यादौ लोडर्थः ( श० ५० श्लो० ९९-१०० टी० पृ० १४५-१४८ )। विधिश्चात्र वक्रिच्छाविषयत्वम् । अत्र पटकर्मकमदिच्छाविषयानयनानुकूलकृतिमांस्त्वम् इत्यन्वयः ( तर्का० ४ पृ० ११ ) ( सि० च० ४ पृ० ३२ )। यथा वा कटं तावद्भवान् करोतु ग्राम भवानागच्छतु इत्यादौ ( काशिका० )। ६ निमन्त्रणम् । यथा अमुत्र भवानास्ताम् अमुत्र भवान् भुताम् इत्यादौ । ७ आमत्रणम् । यथा इह भवान् भुताम् इत्यादौ। ८ अधीष्टः । यथा अधीच्छामो भवन्तं माणवकं भवानध्यापयतु इत्यादौ । ९ संप्रश्नः । यथा किं न खलु भो व्याकरणमध्ययै इत्यादौ (काशिका० ३।३।१६२ )। १० प्रार्थना । यथा भिक्षां देहि त्वमर्थिभ्यः इत्यादौ लोडर्थः ( श० प्र०) (ग० व्यु० ल० पृ० १३९ )। यथा वा भवति मे प्रार्थना व्याकरणमध्ययै छन्दोध्ययै इत्यादौ (काशिका० )। ११ आशंसनम् । यथा चिरं जीवतु भवानित्यादौ लोडर्थः । यथा वा भवतु ते शिवप्रसादः इत्यादौ लोडर्थः । आशंसनं च वक्राशंसनम् । अथ वा अप्राप्तस्येष्टस्यार्थस्य प्राप्तुमिच्छा । अत्रार्थे सूत्रम् आशिषि लिङ्लोटौ (पा० सू० ३।३।१७३ ) इति । तदर्थस्तु आशीविशिष्टेर्थे वर्तमानाद्धातोलिङ्लोटौ प्रययौ भवतः ( कांशिका० ) इति । अत्राधिकं तु आशीः इति शब्दव्याख्याने दृश्यम् । चैत्रोक्तात जीवतु भवान् इति वाक्यात् चैत्राशंसाविषयवर्तमानजीवनवांस्त्वम् इत्येवं बोधः । घटो नीलो भवतु भवान् सुखी भवतु इत्यादौ तु धातुनैव लक्षणयोपस्थापितायां नीलाद्युत्पत्तौ तिङाशंसनीयत्वं प्रतीयते । एवं च आशंसाविषयवर्तमाननीलोत्पत्तिमान्नीलो घटः इत्यादिकस्तत्र बोधः ( श० प्र० श्लो० ९९
टी० पृ० १४६)। लोभः—(दोषः )[क] धर्मविरोधेन परद्रव्येच्छा (गौ० वृ० ४।१।३)।
तदुक्तम् परवित्तादिकं दृष्ट्वा नेतुं यो हृदि जायते । अभिलाषो ९१ म्या०को
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org