________________
न्यायकोशः।
७२३ समवायः विशेषणविशेष्यभावश्च इति । प्रयोजनादिकं च सविस्तरं इन्द्रियार्थसंनिकर्षशब्दव्याख्यानावसर उक्तमेवेत्यत्रैव विरम्यते। लौकिकाचारः-लोकमात्रप्रसिद्धाचारः । यथा अलौकिकाविगीतशिष्टाचारविषयत्वम् इत्यादौ भोजनाद्याचारः । अत्र लौकिकत्वं च विधिमन्तरा रागादिप्राप्तत्वम् (नील० मङ्ग० पृ० २ )।
वंशः-दशहस्तपरिमितो वंशः। वचनम् --१ [क] ज्ञानोद्देश्यकप्रवृत्त्यधीनशब्दः । यथा शिष्यं धर्म ब्रूते
इत्यादौ नोर्थः । अत्र धात्वर्थघटके ज्ञाने शिष्यवृत्तित्वस्य शब्दे च धर्मविषयकत्वस्यान्वयः (ग० व्यु० का० २ ख० १ पृ० ४६ )। अयमन्वयप्रकारो ब्रुवणशब्दव्याख्याने प्रदर्दितोप्यध्येतृसौकर्यार्थमिह पुनः प्रदर्शितः इति विज्ञेयम् । [ख] शाब्दिकास्तु विषयतया ज्ञानानुकूलशब्दप्रयोगरूपो व्यापारः । यथा माणवकं धर्मं ब्रूते इत्यादी बोर्थः इत्याहुः ( ल० म० कार० २ पृ० पृ० ९२ )। २ उपदेशशब्दवदस्यार्थीनुसंधेयः । एवम् वदधात्वर्थोपि ज्ञेयः ( श० प्र० श्लो० ७३ टी० पृ० ९८)। ३ वाक्यम् इति काव्यज्ञा आहुः । ४ व्याकरणशास्त्रप्रसिद्धः संख्यार्थकः सुतिस्वरूपः प्रत्ययः । यथा बहुषु बहुवचनम् (पा० सू० १।४।२१) व्यकयोर्द्विवचनैकवचने ( पा० सू० १।४।२२ )
इत्यादौ । ५ शुण्ठी इति भिषज आहुः। वधः-प्राणवियोगफलकव्यापारः । यथा नाततायिवधे दोषोन्यत्र गो
ब्राह्मणात् सातः प्रायश्चित्तं कुर्यात् ( वीरमित्रो० सुमन्तुस्मृतिः पृ० २२-२८ ) इत्यादौ । वधनिष्पादकत्वं च साक्षात्परंपरया वा बोध्यम् । वधनिष्पादकः पञ्चविधः कर्ता प्रयोजकः अनुमन्ता अनुग्राहकः निमित्ती चेति । यथाहापस्तम्बः प्रयोजयिता मन्ता कर्तेति स्वर्गनरकफलेषु कर्मसु भागिनः । यो भूय आरभते तस्मिन्फलविशेषः ( आपस्त० धर्मसू० २।११।२९।१-२) इति । इषुकारस्तु न वधनिष्पादकः। अन्यत्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org