________________
७१८
न्यायकोशः। ( श० प्र० श्लो० १०६ पृ० १६४ )। अत्र सूत्रम् अनद्यतने लुट् ( पा० सू० ३।३।१५ ) इति । तदर्थस्तु अनद्यतने भाविनि लुट् (वै० सा० ल० पृ० १२७ ) इति । अत्र अनद्यतन इति बहुव्रीहि । ते न व्यामिश्रे न भवति अद्य श्वो वा भविष्यति इति
( काशिका० )। लङ्-(तिङ् ) या तिङ् क्रियायाः ( धात्वर्थस्य ) अतिपाते ( विगमे )
अतीतकालावच्छेद्यत्वस्य बोधिका तादृशी तिङ् लुडुच्यते । यथा एधश्वेत् प्राप्स्यत् ओदनमप्यपक्ष्यत् इत्यादी लुङ् । अत्र स्यतिप्रभृतयश्चैत्रादेरतीतकालावच्छेद्यमिन्धनप्राप्त्यभाववत्त्वमनुभावयन्ति । तथा च अतीतकाल इव क्रियाप्रतियोगिकोभावोपि लुङोर्थः । वस्तुतः अतीतकालावच्छेदेनेन्धनप्राप्त्यभावप्रयुक्त ओदनपाकाद्यभाव एवोक्तस्थले लुङा चैत्रादावनुभाव्यः । क्रियाविरहप्रयुक्तस्य क्रियान्तरविरहस्यैव क्रियातिपातशब्दार्थत्वात् ( श० प्र० श्लो० १०६ टी० पृ० १६४ )। लङर्थस्तु व्याप्यक्रियया व्यापकक्रियाया आपादनम् ( तर्का ० ४ पृ० ११ )। यथा भूतले घटश्चेदभविष्यद्भूतलमिवाद्रक्ष्यत् इत्यादी लङर्थः । अत्रोदाहरणान्तरं यथा परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् । अस्मिन्द्वये रूपविधानयत्नः पत्युः प्रजानां वितथोभविष्यत् ॥ (रघु० स० ७ श्लो० १४ ) इति । शाब्दिकमते क्रियाया अनिष्पत्तौ गम्यमानायां भूते भाविनि वा हेतुहेतुमद्भावे सति लङ । अत्र जगदीश आह कचित् भूतत्वम् क्वचित्तु भविष्यत्त्वं लङर्थः इति ( तर्का० ४ पृ०११) (सि० च० ४ पृ० ३२ )। अत्र सूत्रम् लिनिमित्ते लङ् क्रियातिपत्ती ( पा० सू० ३।३।१३९) इति । तदर्थस्तु लिङो निमित्तं हेतुहेतुमद्भावादि (वै० सा० ल० पृ० १४८)। भविष्यतीत्यनुवर्तते । हेतुहेतुमतोर्लिङ इत्येवमादिकं लिङो निमित्तम् । तत्र लिनिमित्ते भविष्यति काले लङ् प्रत्ययो भवति क्रियातिपत्तौ सत्याम् ( काशिका० ) इति । तत्र भाविनि हेतुहेतुमद्भावे लङ् यथा सुवृष्टिश्चेदभविष्यत् तदा सुभिक्षमभविष्यत् वह्निश्चेत्प्राज्वलिष्यत् ओदनमपक्ष्यत् इत्यादौ इत्याहुः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org