________________
न्यायकोशः।
७१७ अत्र अनुमतत्वह्यस्तनत्वाद्यनाकाङ्कितत्वम् इति विशेषणं देयम् । तेन पच्यताम् अपचत् अपचताम् इत्यादौ लोडादौ नातिप्रसङ्गः । अत्र अतीतः काल इव तन्निष्टमद्यतनत्वमपि लुङोर्थः । तेन वर्तमानध्वंसप्रतियोग्यद्यतनपाककृतिमान इत्येवं बोधः ( श० प्र० श्लो० १०३ टी० पृ० १६१ ) ( ग० व्यु० ल० पृ० १३८ )। किंच उत्पत्तिः भूतत्वं च लुङर्थः ( तर्का० ४ पृ० ११ )। अथ वा अतीतत्वं लुङर्थः । तस्याश्रयतासंबन्धेनाख्यातार्थकृत्यादावन्वयः । वस्तुतः वर्तमानध्वंस एव लुङर्थः । तस्य प्रतियोगितासंबन्धेन कृत्यादावन्वयः ( ग व्यु० लका० पृ० १३८ )। अत्र सूत्रम् लुङ् (पा० सू० ३।२।११० ) इति । तदर्थस्तु भूतसामान्ये लुङ् इति ( वै० सा० ल० पृ० १४६ ) ( काशिका० )। अत्र भूतत्वं चातीतत्वम् । तच्चोत्पत्तावन्वेति । तथा च विद्यमानध्वंसप्रतियोग्युत्पत्तिकत्वं लब्धम् ( तर्का० ४ पृ० ११)। वैयाकरणास्तु अत्र विद्यमानध्वंसप्रतियोगित्वं भूतत्वम । तच्च घटोभूत् इत्यत्र क्रियायां निर्बाधम् इति विद्यमानेपि घटे घटोभूत् इति प्रयोगः । विद्यमानध्वंसप्रतियोगी घटाभिन्नाश्रयक उत्पत्त्याद्यनुकूलो व्यापारः इति
बोधः इत्याहुः (वै० सा० ल० पृ० १४७ )। लुट् (तिङ् ) धात्वर्थे श्वस्तनत्वस्य भावित्वस्य च बोधिका तिङ्
लुडुच्यते । यथा भविता भवितारौ भवितारः इत्यादी पक्ता पक्तारौ पक्तारः इत्यादौ च ( तर्का० ४)। लडादयस्तु धात्वर्थे भावित्वमेव वोधयन्ति न श्वस्तनत्वमपि इति तत्र नातिप्रसङ्गः । श्वः पक्ष्यति इत्यादी धात्वर्थे श्वस्तनत्वस्य बोधकमपि श्वः इति पदं न तिङ् इति न श्वः इति पदेतिप्रसङ्गः ( श० प्र० श्लो० १८५ पृ० १६२ ) । अत्र लुडोंनद्यतनभविष्यत्त्वम् । तच्च शब्दप्रयोगाधिकरणदिवसावृत्तित्वे सति शब्दप्रयोगकालीनप्रागभावप्रतियोगित्वम् । शब्दप्रयोगाधिकरणदिवसध्वंसोत्पत्तिकत्वं वा । केचित्तु भविष्यत्त्वमेव लुडर्थः इत्याहुः ( ग० व्यु० ल० पृ० १३६ ) । तण्डुलं चेत्पचेदोदनमपि भुञ्जीतेत्यादौ तु क्रियातिपतनस्य वर्तमानत्वमेव लिङा प्रत्याय्यते न त्वतीतत्वम् इति तद्वयुदासः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org