________________
न्यायकोशः। अतीतत्वमनद्यतनत्वं परोक्षत्वं च लिडर्थः ( तर्का० ४ पृ० ११ )। यथा जुगोप गोरूपधरामिवोर्वीम् (रघु० २।३ ) इत्यादौ लिडर्थः । अत्र सूत्रम् परोक्षे लिट् (पा० सू० ३।२।११५ ) इति । तदर्थस्तु अनद्यतने भूते परोक्षेर्थे लिट् भवति इति । तेन अटातने भूते अनद्यतने भविष्यति भूतेप्यपरोक्षे च न लिट्प्रयोगः स्यात् । अत्र परोक्षत्वं च साक्षात्करोमि इत्येतत्प्रतीतिसाक्षिकलौकिकविषयत्वाभाववत्त्वम् । तेन उपनीतक्रियायां यथाश्रुतप्रत्यक्षाविषयत्वरूपस्य परोक्षत्वस्याभावेपि न पपाच इत्यादिप्रयोगानुपपत्तिः (वै० सा० द० ल० पृ० १२४ )। अत्र परोक्षत्वातीतत्वयोर्लिंडर्थयोरन्वयस्तु लुङर्थवदुत्पत्ती ज्ञेयः ( तर्का०
४ पृ० ११ )। लिपिः-शब्दस्मारकः शब्दानुमापको वा रेखाविशेषः ( म० प्र० ४
पृ० ६६ )। यथा क इति रेखा प्रजापति इति शब्दस्य स्मारिका । केचित्तु लिपि प्रमाणान्तरं मन्यन्ते । लिपिभेदास्तु तत्तद्देशभेदेन देवनगरीग्रन्थाक्षरलिप्यादयो बहवः । अत्र सिद्धान्तविदस्तु लिपिस्तु शब्दस्मारकतया शब्दानुमापकतया वा प्रमायामुपयोगिनी न तु प्रमाणान्तरम् इत्याहुः । अनुमानं च अयं पुरुषः घटमानय इति शब्दविषयकाभिप्रायवान् घटमानय इति शब्दव्यञ्जकलिपिकर्तृत्वात् यथा अहम् इति । अस्मादनुमानात् घटमानय इति शब्दस्यानुमितिभवति । ततोर्थप्रत्ययः इति ज्ञेयम् ( म० प्र० ४ पृ० ६६)। लुङ्- (तिङ्) कृतवधादेशस्य हन्तेरर्थे अथ वा सिजन्तस्य धातोरर्थे या
अतीतत्वस्य बोधिका तादृशी तिङ् लुशब्देनोच्यते । यथा अवधीत् अवधिष्टाम् अवधिषुरित्यादौ अपाक्षीदित्यादौ च लुङ् ( श० प्र० श्लो० १०३ पृ० १६१ )। यथा वा घटोभूदित्यादौ ( वै० सा० ल० पृ० १४७ )। जघान हन्ति स्म इत्यादौ लिड्लडादिको हन्तेरर्थे अतीतत्वस्य बोधकोपि न कृतवधादेशस्य न वा सिजन्तस्य इति न तत्रातिप्रसङ्गः। वध्यात् वध्यास्ताम् वध्यासुः इत्यादौ कृतवधादेशस्य तस्यार्थे स्वार्थानुभाविकापि आशीः नातीतत्वस्य बोधिका इति न तत्रातिप्रसङ्गः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org