________________
न्यायकोशः।
७१३ अत्र पुरोडाशसदनभूतं बर्हिः खण्डयामि इति श्रुतपदसामर्थ्यात् बर्हिदेवसदनं दामि इति मन्त्रस्य कुशकाशादिरूपाणां मुख्यबर्हिषां लवनाङ्गत्वम् । न तु समाख्यातो दर्भसदृशानामुलपादिरूपतृणविशेषाणां गौणबर्हिषां लवनाङ्गत्वम् इत्यर्थः ( लौ० भा० टी० पृ० २१ )। अथ वा दामि इति पदस्य दा लवने इत्यस्माद्धातोः सिद्धस्य छेदनप्रकाशनसामर्थ्यात् बर्हिः इत्यस्य चास्तृतदर्भप्रकाशनसामर्थ्यात् दर्भच्छेदने समुदायमत्रस्य विनियोगोवगम्यते (तत्त्वबोध० ) ( वाच०)। सुवेणावद्यतीत्यत्र अवदानसामान्यशेषत्वावगमेपि सुवस्य लिङ्गात्सामर्थ्यरूपात् आज्यसांनाय्यादिद्रवद्रव्यावदानविशेषाङ्गत्वम् । सुवेण मांसादिद्रव्यावदानस्य कर्तुमशक्यत्वात् इति । ऐन्या गार्हपत्यमित्यत्र मन्त्रस्य प्राप्तार्थत्वेनानुवादकत्वसंभवात् मन्त्रस्थेन्द्रपदस्यैव इदि परमैश्वर्ये इति धात्वनुसारादैश्वर्यगुणयोगादग्नौ लक्षणा इति गार्हपत्यप्रकाशने समर्थमेव मनं ऐन्द्या इति तृतीयाश्रुतिर्गार्हपत्योपस्थाने विनियुङ्क्ते ( लौ० भा० टी० पृ०२१) इति । मीमांसकाभिमतमिदं च लिङ्गं विनियोगविधेः सहकारि भवति इति विज्ञेयम् ( लौ० भा० पृ० १६)। ६ स्वरूपम् । यथा सप्तदशावयवो लिङ्गदेहः इत्यादौ सप्तदश सूक्ष्मदेहस्य लिङ्गम् इत्याहुः । अत्र सूत्रम् सप्तदशेकं लिङ्गम् ( सांख्य० सू० अ० ३ सू० ९) इति । तदर्थश्च सूक्ष्मशरीरमप्याधाराधेयभावेन द्विविधं भवति । तत्र सप्तदश मिलित्वा लिङ्गशरीरम् । तच्च सर्गादौ समष्टिरूपमेकमेव भवतीत्यर्थः । एकादशेन्द्रियाणि पश्च तन्मात्राणि बुद्धिश्च इति सप्तदश । अहंकारस्य बुद्धावेवान्तर्भावः (सांख्य० भा० ३।९ ) इति । अत्रोक्तम् वासना भूतसूक्ष्म (तन्मात्रा) च कर्मविद्ये तथैव च । दशेन्द्रियं मनो बुद्धिरेतल्लिङ्ग विदुर्बुधाः ॥ (वाशिष्ठे० ) इति । कर्मात्मा पुरुषो योसौ बन्धमोक्षैः प्रयुज्यते । स सप्तदशकेनापि राशिना युज्यते च सः ॥ ( भार० मोक्षधर्मे ) ( सांख्य ० भा० ३।९) इति । अत्रेदं बोध्यम् । सांख्यमते लिङ्गशरीरस्यैव सुखदुःखकार्यकत्वम् । कुतः । एकस्य लिङ्गदेहस्यैव सुखदुःखाख्यभोगात् । न तु स्थूलशरीरस्य । मृतशरीरे सुखदुःखाद्यभावस्य सर्वसंमतत्वात् ( सांख्य० भा० अ० ३ सू० ८ ) इति । ७ धर्म९. न्या० को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org