________________
७१२
न्यायकोशः। तथात्वेन गुणगाविशेषाच्छब्देषु लिङ्गविशेषः इति कल्प्यते । स च विशेषः शास्त्रे इत्थमभ्यधायि । विकृतसत्त्वादीनां तुल्यरूपेणावस्थानानपुंसकत्वम् । सत्त्वस्याधिक्ये पुंस्त्वम् । रजस आधिक्ये स्त्रीत्वम् इति । एवं च लिङ्गस्य शब्दधर्मत्वेपि शब्देन सहार्थाभेदारोपात् असति बाधके अर्थेपि साक्षात् तत्पारतत्र्येण वा सर्वत्र तस्य विशेषणत्वम् (वाच०)। अथ वा सत्त्वरजस्तमोगुणानां साम्यावस्था नपुंसकत्वम् । आधिक्यं पुंस्त्वम् । अपचयः स्त्रीत्वम् । तत्तच्छब्दनिष्ठं तत्तच्छब्दवाच्यं च । तमेव विरुद्धधर्ममादाय तटादिशब्दा भिद्यन्ते (वै० सा० नामार्थ० पृ० २२४ ) इति । अत्रेदं बोध्यम् । पुंलिङ्गः शब्दः इति व्यवहारात् स्वमोनपुंसकात् ( पा० सू० ७।१।२३ ) इत्यत्र शब्दस्यैव नपुंसकत्वव्यपदेशात् दारान् इत्यादौ पुंस्त्वान्वयबाधाञ्च लिङ्गस्य शब्दधर्मत्वम् इति । तटादिशब्दानामनेकलिङ्गत्वव्यवहारः समानानुपूर्वीकत्वेनैव शब्दानामभेदारोपात् । वस्तुतः तेषां भिन्नानामेव भिन्नलिङ्गत्वमिति । अत्र महाभाष्यम् एकार्थे शब्दान्यत्वात् दृष्टं लिङ्गान्यत्वम् इति दिक् ( वाच० )। इदं शाब्दिकमतम् । पुंस्त्वादयतिस्रो जातयः इति वैशेषिका आहुः । पुंस्त्वादि शब्दनिष्ठम् इति प्राश्च आहुः । पुंस्त्वादिलिङ्गमर्थनिष्ठमेवेति नव्यवैयाकरणा आहुः । पुंस्त्वादिलिङ्गस्यार्थनिष्ठत्वे प्रमाणं च इयं व्यक्तिः इदं वस्तु अयं पदार्थः इति व्यवहारा अप्रतिबद्धप्रसराः इति । अत्रेदमाकूतम् पुष्यः तारका नक्षत्रम् इति शब्दनानात्वदर्शनात्स्तनकेशाद्यतिरिक्तमेव लिङ्गमर्थनिष्ठम् इति ( ल० म० ) ( वै० सा० द० नामार्थ० पृ० २२५ ) । अत्रोक्तम् स्त्रीलिङ्गमपि पुल्लिङ्गं क्लीबलिङ्गमिति त्रिधा। शब्दसंस्कारसिद्ध्यर्थं भाषया नाम भिद्यते॥(श० प्र० श्लो० ५३) इति । अधिकं तु स्त्रीलिङ्गम् इत्यादितत्तच्छब्दे द्रष्टव्यम् । ५ मीमांसकाश्च अर्थप्रकाशनसामर्थ्य लिङ्गम् इत्याहुः । सामर्थ्यं द्विविधम् शब्दगतं सामर्थ्यम् अर्थगतं सामर्थ्य च । तत्राद्यम् बहिर्देवसदनं दामि इति । द्वितीयं तु सुवेणावद्यति इति । एवम् ऐन्या गार्हपत्यमुपतिष्ठते स्योनं ते सदनं कृणोमि इत्यादिकानि लिङ्गस्योदाहरणानि ज्ञेयानि । अत्रोक्तम् सामर्थ्य सर्वशब्दानां लिङ्गमित्यभिधीयते इति।क्षमता च लिङ्गम् इति च (वाच०)।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org