________________
न्यायकोशः।
७११ फलवत्त्वमुपलभ्य वर्णाश्रमिणामपि दृष्टं प्रयोजनमनुद्दिश्य प्रवर्तमानानां फलानुमानम् इति । अत्रेदं बोध्यम् । यत्र धूमस्तत्राग्निः इति अग्यभावे धूमो न भवति इत्येवं प्रसिद्धसमयस्यासंदिग्धधूमदर्शनात् साहचर्यानुस्मरणादनन्तरमन्यध्यवसायो भवति इति तत्र लिङ्गदर्शनं प्रमाणम् । प्रमितिरमिज्ञानम् । अथ वा अग्निज्ञानमेव प्रमाणम् । प्रमितिरनौ गुणदोषमाध्यस्थप्रदर्शनम् । तत्स्वनिश्चितार्थमनुमानम् (प्रशस्त० पृ० ४४-४५)। लिङ्गशब्दे व्युत्पत्तिस्तु व्याप्तिबलेन लीनमर्थं गमयति इति लिङ्गम् ( सि० च० २ पृ० २५) (गौ० वृ० )। अथवा लिङ्गयते गम्यते अनेनार्थः इति लिङ्गम् ( न्या० बिन्दु० प० २ पृ० २१)। [ख] यदनुमेयेन सहचरितं तत्समानजातीये च सर्वत्रासर्वत्र वा सामान्येन प्रसिद्धम् तद्विपरीते च सर्वस्मिन्नसदेव तत् लिङ्गम् । अत्रोक्तम् अनुमेयेन संबद्धं प्रसिद्धं च तदन्विते । तदभावे च नास्त्येव तल्लिङ्गमनुमापकम् ।। विपरीतमतो यत्स्यादेकेन द्वितयेन वा । विरुद्धासिद्धसंदिग्धमलिङ्गं काश्यपोब्रवीत् ॥ इति काश्यपः कणादः। तदर्थश्च यदनुमेयेनार्थेन देशविशेषे कालविशेषे च सहचरितम् अनुमेयधर्मान्विते चान्यत्र सर्वस्मिन्नेकदेशे वा प्रसिद्धम् अनुमेयविपरीते च सर्वस्मिन् प्रमाणतोसदेव तदप्रसिद्धस्यार्थस्यानुमापकं लिङ्गं भवति इति । यत्तु यथोक्तात्रिरूपालिङ्गादेकेन धर्मेण द्वाभ्यां वा विपरीतम् तदनुमेयस्याधिगमे लिङ्गं न भवति इति आह सूत्रकारः अप्रसिद्धोनपदेशोसन् संदिग्धश्वानपदेशः ( वै० ३।१।१५) (प्रशस्त० २ पृ० २७, ४४, ४६ ) इति । २ सांख्यमते महत्तत्त्वादिकार्यजातं लिङ्गमुच्यते । अस्मिन्नर्थे व्युत्पत्तिस्तु लियं लयं गच्छति प्रधाने इति लिङ्गम् । पृषोदरादित्वात्साधुत्वम् । ३ लक्षणम् । यथा युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् (गौ०१।१।१६) इत्यादौ ज्ञानकारणाणुत्वं मनसो लिङ्गम् ( गौ० वृ० १११।१६ ) इत्यादौ । ४ वैयाकरणास्तु शब्दसाधुताप्रयोजको धर्मः । स च प्राकृतगुणगतावस्थात्मको धर्मः । तद्विशेषश्च पुनपुंसकत्वादिः इत्याहुः (शब्दार्थर० )। तथा हि। सर्वेषां त्रिगुणप्रकृतिकार्यतया शब्दानामपि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org