________________
७१०
न्यायकोशः। इदमेव तृतीयं लिङ्गज्ञानम् । तथा हि लिङ्गज्ञानं त्रिविधम् । तद्यथा पर्वते धूमेन वह्निसाधने धूमाग्योप्तो गृह्यमाणायां महानसादौ यद्भूमज्ञानं तदादिमम् । पक्षे यद्धूमज्ञानं तद्वितीयम् । ततः पूर्वगृहीतां धूमाग्यो
ाप्ति स्मृत्वा तत्रैव पर्वते वह्निव्याप्यत्वेन यद्धूमज्ञानं तत्तृतीयम्। इदमेव लिङ्गपरामर्शः इत्युच्यते ('सि० च० ) (त० भा०) । अथ वा महानसादौ दृष्टान्ते वहधूमयोभूयः सहचारदर्शनात् व्याप्यत्वेन धूमज्ञानं प्रथमम् । ततः पर्वतादौ धूमं दृष्ट्वा व्याप्यत्वेन तत्स्मरणं द्वितीयम् । ततः तत्रैव व्याप्यत्वेन धूमस्य परामर्शो वह्निव्याप्यधूमवान् इत्येवंरूपस्तृतीयः ( त० कौ० २)। यद्वा प्रथमं दृष्टान्ते धूमदर्शनम् । ततः व्याप्ति
ज्ञानम् । ततः तद्विशिष्टपक्षधर्मताज्ञानम् ( न्या० म० २ पृ० १८ ) लिङ्गम्-१ ( हेतुः ) [क] व्याप्तिबलेन यद्यस्य गमकम् तत् तस्य लिङ्गम् । यथा पर्वतो वह्निमान्धूमादित्यादौ धूमो वह्नलिङ्गम् (प्र० प्र०) (त० भा० पृ० ९ )। इदं लिङ्गं द्विविधम् सल्लिङ्गम् असल्लिङ्गं च । तत्र व्याप्तिपक्षधर्मतावल्लिङ्गं सल्लिङ्गम् । तच्च व्यापकेन साध्येन व्याप्यं भवति । असाल्लिङ्गं तु व्याप्तिपक्षधर्मतान्यतरशून्यम् । तस्य व्याप्यत्वे न नियमः । अत्र उभयविधमपि लिङ्गं प्रत्येकं त्रिविधम् अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति ( न्या० म० २ पृ० १८ ) ( गौ० वृ० ) ( त० सं० )। अत्रापि विभागः संपद्यते । अन्वयव्यतिरेकि द्विविधम् सपक्षवृत्ति तदेकदेशवृत्ति चेति । तत्राद्यम् शब्दः अनित्यः कृतकत्वाद्धटवत् इति सपक्षव्यापकम् । सर्वस्मिन्ननित्ये कृतकत्वस्य वृत्तः । द्वितीयं यथा पर्वतोग्निमान् धूमवत्त्वात् इति सपक्षैकदेशवृत्ति । अग्निमत्यपि कचिदवृत्तेः (प्र०प० पृ० १८ ) इति । अत्र शिष्टं तु अनुमानशब्दव्याख्याने दृश्यम् । लिङ्गं ( अनुमानम् ) द्विविधम् दृष्टम् सामान्यतो दृष्टं च । तत्र दृष्टं प्रसिद्धसाध्ययोरत्यन्तजात्यभेदे अनुमानम् । यथा गव्येव सास्नामात्रमुपलभ्य देशान्तरे सास्नामात्रदर्शनात् गवि प्रति. पत्तिर्भवति । प्रसिद्धसाध्ययोरत्यन्तजातिभेदे लिङ्गानुमेयधर्मसामान्यानुवृत्तितोनुमानं सामान्यतो दृष्टम् । यथा कर्षकवणिग्राजपुरुषाणां प्रवृत्तेः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org