________________
न्यायकोशः।
७०९ इत्यादि । अत्र धातोः यदि इत्यस्य वा निरूढलक्षणया भेदोर्थः । तेन धूमवद्भेदाश्रयतावान् हृदः इत्यर्थः । एवम् गुणत्वं यदि घटे स्याद्रव्ये स्यात् इत्यादौ तु धातोरत्यन्ताभाव एवार्थः। तदुत्तरलिङस्तु पूर्ववत् आश्रयत्वम् अर्थः । तथा च घटवृत्तित्वाभाववद्गुणत्वं घटवृत्तित्वव्यापकीभूतस्य द्रव्यवृत्तित्वस्याभाववत् इत्येवं तत्र बोधः ( श० प्र० श्लो०१०० टी० पृ० १५५)। ( ६ ) जन्यत्वेर्थे लिङ् यथा यो ब्राह्मणायावगुरेत्तं शतेन यातयात् इत्यादि । अत्र हेतुहेतुमतोर्लिङ् ( पा० सु० ३।३।१५६) इत्यनुशासनात् यः शतयातनाहेतुब्राह्मणावगोरणवान् तदीयशतयातनं ब्राह्मणावगोरणजन्यम् इत्याकारको बोधः। अवगोरणं हन्तुमुद्यमः। अत्र शाब्दिकमते तु शाब्दबोधः यत्कर्तृको ब्राह्मणोद्देश्यको वधोद्यमः तत्कर्मिका तादृशवधोद्यमजन्या शतसंवत्सरयातना इत्याकारको दृष्टव्यः (वै० सा० द० पृ० १४६ )। प्राभाकरास्तु अत्र जन्यजनकभावो न लिङर्थः । अपि तु पौर्वापर्यमानं लिङर्थः। पश्चात्तस्य कल्पनात् । अन्यथा दुरितापूर्वस्य वाच्यत्वापत्तेः इत्याहुः ( श० प्र० श्लो० १०० टी० पृ० १५८)। (७) अधीष्टार्थे लिङ् यथा माणवकमध्यापयेद्भवान् इत्यादि । अधीष्ठश्च सत्कारपूर्वको व्यापारः । तथा च माणवकमध्यापयेद्भवानित्यादौ अध्यापनादिव्यापारे संमानपूर्वकप्रवृत्त्यनुकूलो व्यापारः इत्यर्थः । अयमेव अभ्यर्थना इत्युच्यते । अत्र संमानपूर्वमध्यापनादिव्यापारः इष्टसाधनम् इति बोधः (वै० सा० द० पृ० १३१-१३२ )। (८)) संप्रश्ने ( संप्रधारणे ) लिङ् यथा किं भो वेदमधीयीय उत तर्कमधीयीय इत्यादि (काशिका० पा० सू० ३।३।१६१ पृ० १८१ ) । आशिषि लिङ् यथा चिरं जीव्याद्भवान् । यथा वा अव्यादजोज्रिमणिमांस्तव जान्वथोरू यज्ञोच्युतः कटितटं जठरं हयास्यः
(भाग० स्क० १० अ० ६ श्लो० २२ ) इत्यादि । लिङ्गपरामर्शः-परामर्शशब्दवदस्यार्थीनुसंधेयः । अत्रेदं बोध्यम् । लिङ्ग
परामर्शोनुमानम् इति वार्तिककारसिद्धान्तः । एके तावद्वर्णयन्ति लिङ्गलिङ्गिसंबन्धस्मृतिरनुमानम् इति ( न्या० वा० १।१।५ पृ० ४७ ) ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org