________________
न्यायकोशः ।
शास्त्रज्ञादयस्तु पुंसः असाधारणमिन्द्रियम् ( उपस्थः ) इत्याहुः | ८ चिह्नम् शिवलिङ्गं चेति काव्यज्ञाः पौराणिका चाहुः । ९ उपक्रमोपसंहारावभ्यासोपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ ( वेदान्तसार: ) ( सर्व० सं० पृ० ४०५ शां० ) । इदमेव लिङ्गषट्कमित्युच्यते ।
GE
लिङ्गाभासत्वम् — १ अङ्गवैकल्यम् । २ दुष्टलिङ्गत्वम् । लिङ्गि - १ साध्यम् ( दीधि० २ ) । यथा लिङ्गाविषयकलिङ्गिविषयकज्ञानजनकन्यायावयवत्वम् प्रतिज्ञालक्षणम् ( चि० २ अव० पृ० ७७ ) इत्यादौ लिङ्गिशब्दार्थः साध्यम् । यथा वा तल्लिङ्गलिङ्गिपूर्वकम् ( सांख्यका० ५ ) इत्यादौ । अत्र लिङ्गि इत्यस्य लिङ्गज्ञानज्ञेयम् इत्यर्थो ज्ञेयः । २ पक्षः ३ पक्षधर्मताज्ञानम् । अत्रार्थे लिङ्गमस्यास्ति इति
I
विग्रहोपि ज्ञेयः ( सांख्य० कौ० श्लो० ५ पृ० १० ) । लिङ्गोपधानम् — लिङ्गोपहिते पक्षे लैङ्गिकस्य साध्यस्य भानम् । अत्र विग्रहः । लिङ्गस्य हेतोः उपधानम् पक्षे वैशिष्ट्यम् इति । लिङ्गोपहिते इत्यस्य लिङ्गेन व्याप्तिपक्षधर्मताविशिष्टेन हेतुना उपहितः विशिष्टः तस्मिन् इति विग्रहः । तथा च साध्यानुमानाङ्गहेतुयुक्ते पक्ष इत्यर्थः । यथा शुद्धपर्वतपक्षकेपि वह्निसाध्य के धूमहेतुके स्थले पर्वतो वह्निमान् धूमादित्यादौ वह्निव्याप्यधूमविशिष्ठे पर्वते वह्नेर्भानम् वह्निव्याप्यधूमवान्पर्वतो वह्निमान् इति । तथा हि वह्निव्याप्यो हि धूमो वह्नेर्लिङ्गम् । तद्वति पक्षे वह्नेर्भानम् । वह्निव्याप्यधूमवान्पर्वतः इति परामर्शोत्तरं जायमानानुमितौ ज्ञानलक्षणया तादृशपक्षभानस्यावश्यकत्वात् । तथा च वह्निव्याप्यधूमवान् पर्वतो वह्निमान् इत्येव तत्रानुमितेराकारः इति विज्ञेयम् । लिङ्गोपधानमतम् — लिङ्गोपहितलैङ्गिकभानम् इत्यभिमतम् । अत्र व्युत्पत्तिः लिङ्गस्य व्याप्तिपक्षधर्मताविशिष्टहेतोः उपधानम् भानम् वैशिष्ट्यं वा अर्थात् पक्षे भवति इति मतम् । लिङ्गोपहितेत्यस्यार्थश्च लिङ्गोपहिते लिङ्ग विशिष्टे पक्षे लैङ्गिकस्य साध्यस्य भानं भवति इति । यथा शुद्धपर्वतत्वावच्छिन्नपक्षकवह्निसाध्यकस्थले पर्वतो वह्निमान्धूमादित्यादावपि
I
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org