________________
न्यायकोशः।
मते तु यत्र शक्यार्थस्य परंपरासंबन्धरूपा लक्षणा सा । यथा द्विरेफमानयेत्यादौ द्विरेफादिपदे लक्षितलक्षणा । द्विरेफमानयेत्यादौ परंपरासंबन्धस्तु स्ववाच्यरेफद्वयघटितपदवाच्यत्वादिरूपः ( दि० ४ पृ० १८१ )। अत्र स्वं द्विरेफपदम् । तथा वाच्यं रेफद्वयम् । तद्धटितं पदं भ्रमर इति पदम् । तस्य वाच्यो भ्रमरः। तस्य भावस्तत्त्वं भ्रमररूपार्थेस्ति इति द्विरेफपदशक्यार्थस्य रेफद्वयस्य परंपरासंबन्धरूपा लक्षणा भ्रमरे संगच्छते। अत्र द्विरेफादिपदे रेफद्वयसंबन्धो भ्रमरपदे ज्ञायते । भ्रमरपदस्य च संबन्धो भ्रमरे ज्ञायते इति तत्र लक्षितलक्षणा जहल्लक्षणैव इति नव्यनैयायिकाः प्राहुः (मु० ४ पृ० १८१ )। लक्षितलक्षणापि गौण्यामेवान्तर्भवति । यथा द्विरेफोस्तीत्यत्र द्विरेफपदवाच्यरेफद्वयसंबन्धिभ्रमरपदेन भ्रमरस्योपस्थापनात् द्विरेफपदशक्यरेफद्वयसंबन्धिभ्रमरपदवाच्यत्वरूपपरंपरासंबन्धस्यैव शक्यसंबन्धत्वात् इति बोध्यम् ( म०प्र० ४ पृ० ४१ ) । अत्रेत्थं विप्रतिपत्तिः । लक्षितलक्षणापि वृत्त्यन्तरम् इति प्राञ्चो मन्यन्ते । तन्न । परंपरासंबन्धस्यापि ( न तु साक्षाच्छक्यसंबन्धस्यैव ) शक्यसंबन्धात्मकलक्षणात्वेन द्विरेफपदस्य स्वलक्ष्यभ्रमरपदघटितपरंपरासंबन्धेन भ्रमररूपार्थोपस्थापकत्वसंभवात् द्विरेफपदलक्षणयैवोपपत्ते तिरिक्तवृत्तिकल्पनम इति नव्यनैयायिका आहुः (त० प्र० ख० ४ पृ० ३९)। आलंकारिकास्तु यत्र लक्षिताच्छब्दादर्थाभिधानम् तत्रैव लक्षितलक्षणा परिभाषिता । यथा द्विरेफपदे रूढिप्रयोजनाभावेपि लक्षितलक्षणा इत्याहुः (सा० द० टी० )। अत्र वैयाकरणास्तु द्विरेफपदं रूढिशक्त्या भ्रमरबोधकम् । अवयवार्थप्रतीतिस्तु नास्त्येव रथन्तरादिवत् । यद्वा पदनिष्ठरेफद्वयस्यार्थ आरोपात्संबन्धित्वेनैव भ्रमरबोधः । अत एव भ्रमरपर्यायेषु द्विरेफपदस्य कोशेषु पाठः । बाधप्रतिसंधानं विनैव द्विरेफपदाद्धमरबोधेन लक्षणा इत्ययुक्तम् इत्याहुः
( ल० म० आकाङ्क्षावि० पृ० १७ )। लक्ष्मी:-[क] श्रीविष्णोः पत्नी। अत्र प्रसङ्गतो विषयान्तरमुच्यते । पौषे चैत्रे तथा भाद्रे पूजयेयुः स्त्रियः श्रियम् ( स्कन्दपु० ) इति । दीपान्वितामावास्यायां लक्ष्मीपूजा सर्वैस्तत्कामिभिः कार्या। कोजागर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org