________________
न्यायकोशः।
७.१ निरूढा आधुनिकी गौणी चेति लक्षणा पञ्चविधा ( श० प्र० श्लो० २४ पृ० ३५ )। व्यञ्जना तु शक्तिलक्षणान्तर्भूता शब्दशक्तिमूला । अर्थशक्तिमूला त्वनुमानादिना अन्यथासिद्धा (त० दी० पृ० ३०)। अत्राधिकं तु व्यञ्जनाशब्दव्याख्याने दृश्यम् । अत्र वैयाकरणा आहुः । लक्षणा द्विविधा गौणी शुद्धा च । तत्र स्वनिरूपितसादृश्याधिकरणत्वसंबन्धेन शक्यसंबन्ध्यर्थप्रतिपादिका गौणी। तदतिरिक्तसंबन्धेन तत्प्रतिपादिका शुद्धा । सापि शुद्धा द्विविधा अजहत्स्वार्था जहत्स्वार्था च इति ( ल० म० आकाङ्क्षावि० पृ० १३ )। आलंकारिकास्तु गौण्याः शुद्धायाश्च प्रत्येकं सारोपा साध्यवसाना चेति द्वौ भेदौ । तत्र गौण्या भेदद्वयस्योदाहरणे गोर्वाहीकः गौरयम् इति । शुद्धायां भेदद्वयस्योदाहरणे
तु आयुघृतम् आयुरेवेदम् इत्याहुः ( काव्यप्र० उ० २)। लक्षणाभासः-दोषयुक्तं लक्षणम् । तच्च त्रिविधम् असंभवि अव्यापकम्
अतिव्यापकं चेति । तत्राद्यं यथा गोरेकशफत्वं लक्षणम् इति । द्वितीयं यथां गोः शबलत्वं लक्षणम् इति । तृतीयं यथा गोर्विषाणित्वं लक्षणम्
इति (प्र० प० पृ० २)। लक्षितः-१ [क] लक्षणया बोधितोर्थः । यथा गङ्गायां घोषः इत्यत्र तीरं लक्षितोर्थः । [ख] ज्ञातः । [ग] अनुमितः। २ लक्षकः
शब्दः ( वाच०)। लक्षितलक्षणा-(लक्षणा ) [क] प्राचां मते स्वलक्षितपदशक्यसंबन्धः ।
यथा द्विरेफपदे लक्षितलक्षणा । अत्रार्थे लक्षितस्य पदस्य लक्षणा इति विग्रहो द्रष्टव्यः । (त० प्र० ख० ४ पृ० ३९)। अत्र द्विरेफपदेन द्वौ रेफौ यत्र इति बहुव्रीहिलक्षणया भ्रमरपदं लक्ष्यते । भ्रमरपदेन च स्वशक्यसंबन्धी भ्रमररूपोर्थो लक्ष्यते इति द्विरेफपदस्य भ्रमरे लक्षितलक्षणोपपद्यते इति । लक्षितलक्षणापि वृत्त्यन्तरम् इति प्राञ्च आहुः ( त० प्र० ख० ४ पृ० ३८ )। [ख] यत्र लक्षितपदेन लक्ष्यार्थोवगम्यते ( न तु शक्यार्थः दि०) तत्र लक्षितलक्षणा । यथा द्विरेफोस्तीत्यत्र द्विरेफपदे (म०प्र० ४ पृ० ४१)। [ग] नव्यनैयायिकानां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org