________________
७००
न्यायकोशः। तथा हि एकदेशविकृतमनन्यवद्भवति इति न्यायेन चित्रगुरित्यत्र चित्रा गौः इति वाक्यस्य सत्त्वात् तस्य च बोध्यम् चित्रा गौः तत्संबन्धश्चित्रगोः स्वामिन्यस्ति इति ( त० प्र० ख० ४ पृ० ४५-४६)। एतन्मते वाक्ये लक्षणाया आवश्यकत्वं तु लक्षकशब्दव्याख्याने समवलोकनीयम् । [छ ] आलंकारिकाश्च शक्यसंबन्धज्ञानं लक्षणा (काव्य० प्रदी०)। [ज] शक्यतावच्छेदकारोपविषयनिष्ठसंसर्गः । एतन्मते गङ्गायां घोष इत्यादौ गङ्गात्वेनैव लक्ष्यार्थप्रतीतिः । अत एवं ततो वैयञ्जनिकी शैत्यपावनत्वादिप्रतीतिः (वै० सा० द०)। [झ ] मुख्यार्थबाधतद्योगाभ्यामर्थान्तरप्रतिपादनं लक्षणा । सा च द्विविधा रूढिमूला प्रयोजनमूला च । तदुक्तं काव्यप्रकाशे मुख्यार्थबाधे तद्योगे रूढितोथ प्रयोजनात् । अन्योर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया ॥ ( सर्व० सं० पृ० ३७३ पात० ) इति । तथा च लक्षणा द्विविधा निरूढलक्षणा स्वारसिकलक्षणा च इति । प्राचां मते लक्षणा चतुर्विधा जहत्स्वार्था अजहस्वार्था जहदजहत्स्वार्था लक्षितलक्षणा चेति (मु० ४ )। नव्यनैयायिकानां मते तु लक्षणा त्रिविधा जहल्लक्षणा अजहल्लक्षणा जहदजहलक्षणा च (त० दी० ४)। यच्चोक्तं ग्रन्थान्तरे शक्येन सह संबन्धात् सादृश्यात् समवायतः । वैपरीत्यात् क्रियायोगाल्लक्षणा पश्चधा मता ॥ इति तस्य गौणी शुद्धा चेति भेदद्वय एव तात्पर्यम् (म० प्र० ख० ४ पृ० ४१)। शाब्दिकानामालंकारिकाणां च मते लक्षणा द्विधा गौणी शुद्धा च । तत्र गौण्यां सादृश्यात्मकः शक्यसंबन्धः । यथा गौर्वाहीक इति (न्या० म० ४ पृ० १०) (न्या० बो०)। तदर्थश्च वाहीको वाहीकदेशोद्भवः । गौबलीवर्दः। वाहीके गवाभेदस्य बाधात् गोपदेन गोसदृशो लक्ष्यते । सादृश्यं च गोगतजाड्यमान्द्यादिकमेव । तथा च जडो मन्दश्च वाहीकः इति शाब्दबोधः ( त० प्र० ख० ४ पृ० ३५-३६ ) । अत्र भट्टवार्तिकम् अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते । लक्ष्यमाणगुणैयोगाद्वृत्तेरिष्टा तु गौणता ॥ ( काव्यप्र० उ० २) इति । शुद्धा च द्विविधा जहल्लक्षणा अजहल्लक्षणा चेति ( न्या० म० ४ पृ० १०) (न्या० बो०)। जगदीशमते तु प्रकारान्तरेण जहत्स्वार्था अजहत्स्वार्था
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org