________________
न्यायकोशः। मन्यन्त । मुख्यार्थबाधे तयुक्तो यथान्योर्थः प्रतीयते। रूढेः प्रयोजनाद्वासौ लक्षणा शक्तिरर्पिता ॥ ( सा० द० परि० २ श्लो० ५) इति । काव्यप्रकाशे तु लक्षणारोपिता क्रिया इति चतुर्थचरणः ( उल्ला० २ )। लक्षणा पुनर्द्विविधा प्रयोजननिरपेक्षा प्रयोजनसापेक्षा चेति। तत्राद्या यथा मार्गाश्चलन्ति इति । इयं प्रयोजनाभावेपि प्रवर्तमानत्वात् रूढलक्षणा इत्युच्यते । द्वितीया यथा गङ्गायां घोषः इति । इयं च पावित्र्यादिप्रयोजनापेक्षया प्रवर्तमानत्वात् केवलं लक्षणा इत्युच्यते । मुख्यार्थानुपपत्तिलक्षणाबीजम् (प्र० च० ४ पृ० ४० ) इति । लक्षणाशब्दश्च लक्षधातोयुच्प्रत्यये स्त्रियां टापि सिद्ध्यति । [ख] प्राञ्चस्तु शक्यादशक्योपस्थितिर्लक्षणा इत्याहुः। [ग] अन्ये तु अशक्ये तात्पर्यविषयत्वं लक्षणा इत्याहुः (न्या० म० ४ पृ० १०)(त० प्र० ४ पृ० ३५)।[घ] शाब्दिकास्तु शक्यतावच्छेदकारोपो लक्षणा इत्यङ्गीचक्रुः। समासस्थशब्दसमुदाये राजपुरुष इत्यादौ तु विशिष्टार्थे समासरूपविलक्षणशक्त्यैवोपपत्तो लक्षणारूपातिरिक्तवृत्तिकल्पनमनुचितम् इति शाब्दिका वदन्ति (न्या० म० ४ पृ० ११ ) ( त० प्र० ख० ४ पृ० ४३ )। आरोपनिमित्तानि च गौतमेनोक्तानि यथा सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्यानि ( गौ० २।२।६१ ) इति वैयाकरणसिद्धान्तः । वस्तुतस्तु सहचरणादीनि शक्यसंबन्धग्राहकाण्येव नारोपनिमित्तानि इति तु वयं प्रतीमः । [ङ ] मीमांसकास्तु प्रतिपाद्यसंबन्धो लक्षणा । यथा छत्रिणो यान्तीत्यादावजहल्लक्षणा । अत्र छत्रिन् इत्यस्य मतुबर्थ केन्प्रत्ययान्ततया पदसमूहरूपत्वेन तच्छक्याप्रसिद्ध्या शक्यसंबन्धरूपा लक्षणा न संभवति । अतः प्रतिपाद्यसंबन्धो हि लक्षणा इत्येतत्पर्यन्तानुधावनम् । अत्र केचिदाहुः । छत्रपदस्यैकसाथै लक्षणा । तद्धितार्थः संबन्धी । तथा च एकसार्थसंबन्धिनो गच्छन्ति इत्यन्वयबोधः (नी० ४ पृ०३०)। एवं च शक्यसंबन्धरूपलक्षणयैवोपपत्तौ प्रतिपाद्यसंबन्धरूपलक्षणा नाङ्गीकर्तव्या इति। [च अन्ये च स्वबोध्यसंबन्धो लक्षणा । यथा चित्रगुरिति बहुव्रीही लक्षणा इत्याहुः । मीमांसकमते चित्रगुः इति बहुव्रीहौ वाक्यस्यापि विशिष्टं बोध्यमस्ति (न्या० म० ४ पृ० १)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org