________________
न्यायकोशः ।
इत्यवधेयम् ( ल० व० ) । व्यवहारः शब्दव्यवहारः शब्दशक्तिग्रहः । लक्षणज्ञानस्य प्रयोजनं यथा सास्नादिमान् गौः इति लक्षणज्ञाने सति यं यं सास्नादिमन्तं पिण्डं पश्यति तं तं गोशब्दवाच्यं प्रत्येति ( प्र० प० पृ० २ ) इति । अत्रेदं बोध्यम् । सर्वं लक्षणं अभिधेयत्वादिवर्जम् व्यतिरेकिहेतुर्भवति । यथा पृथिवीलक्षणं गन्धवत्त्वम् । तथा च विवादपदं पृथिवी गन्धवत्त्वात् यन्न पृथिवी तन्न गन्धवत् यथा आपः इत्यादि ( त० भा० अनु० पृ० १३ ) । लक्षणस्य केवलव्यतिरेकि -
I
प्रयोगः । लक्षणं केवलव्यतिरेकिहेतुः विशेषधर्मत्वात् यत् केवलव्यतिरेकिहेतुर्न भवति तन्न विशेषधर्मो भवति यथा अभिधेयत्वम् । न चेदं तथा । तस्मान्न तथा इति । अन्यदप्युदाह्रियते । गो: सास्नादि - मत्त्वं लक्षणमित्युक्त्या गौः पक्षः महिष्याद्यात्मकेतरभेदः साध्यः । सास्नादिमत्त्वं हेतुः व्यतिरेकदृष्टान्तः । यथा गौरितरेभ्यो भिन्ना सास्नादिमत्त्वाद्यन्नैवं तन्नैवं महिष्यादिवत् इत्यनुमाने गोर्लक्षणं सास्त्रादिमत्त्वं व्यतिरेकिहेतुरेव भवति । नान्वयिहेतुः । गोरितरत्र सास्नादिमत्त्वाभावेन दृष्टान्ताभावात् इति । अत्रायं विशेष: । लक्षणलक्ष्यतावच्छेदकयोरैक्ये सिद्धसाधनं दोषः संपद्यते । यथा अनुमितेर्लक्षणमनुमितित्वम् इत्युक्तौ लक्षणेन लक्ष्ये अनुमितौ इतरभेदसाधने सिद्धसाधनम् । पक्षतावच्छेदकसाध्यसामानाधिकरण्यस्यानुमितिविषयस्यानुमितेः पूर्वमेव हेतावव्यभि चरितसाध्य सामानाधिकरण्यात्मकव्याप्तिज्ञाने भातत्वात् ( म०प्र० २ पृ० १५ ) । व्यावृत्तेः प्रयोजनत्वे पृथिव्यामितरभेदे साध्ये गन्धवत्त्वरूपं लक्षणं हेतुर्भवति । लक्षणस्य लक्षणं तु लक्ष्यतावच्छेदकसमनियतत्वम् । यथा गोर्लक्षणस्य सास्नादिमत्त्वस्य लक्ष्यतावच्छेद की भूतगोत्व समनियतत्वं लक्षणं भवति इति विज्ञेयम् (त० दी० ) ( ल० ब० ) । [ख] दूषणत्रयरहितो धर्मः ( त० भा० ) ( त० प्र० ) ( त० दी० ) यथा गोर्लक्षणं सास्नादिमत्त्वम् । यथा वा विशुद्धमातापितृजन्यत्वं ब्राह्मणस्य लक्षणम् ( त० कौ० पृ० २१ ) । दूषणत्रयं च अव्याप्तिः अतिव्याप्तिः असंभवश्च इति ( त० दी ० ) ( त० कौ० ) । एते त्रयो दोषा लक्षणदोषाः इत्युच्यन्ते ( ल०व० ) । एतेषा दूषकताबीजं तु
६९६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org