________________
न्यायकोशः।
६९७ लक्षणेनेतरभेदसाधने अतिव्याप्तौ व्यभिचारः । अव्याप्तौ भागासिद्धिः । असंभवे स्वरूपासिद्धिश्चेति ( नील० १ पृ० ४ )। एतद्दूषणत्रयरहितो धर्म एव असाधारणधर्मः इत्युच्यते (त० भा० ) (त० प्र०) (त० दी० )। [ग] वेदान्तिनस्तु यो धर्मो लक्ष्ये व्याप्त्या वर्तते न वर्तते चान्यत्र स धर्मः। यथा गोः सानादिमत्त्वम्। तद्धि गोषु सर्वत्रास्ति नास्ति चागोषु इत्याहुः ( प्र० प० पृ० १ )। [घ ] सजातीयविजातीयव्यावर्तको लक्ष्यगतः कश्चिल्लोकप्रसिद्धः आकारो लक्षणम् ( जै० न्या० अ० १ पा० १ अधि० १)। इदं लक्षणं द्विविधम् स्वरूपलक्षणम् तटस्थलक्षणं च इति । तदुक्तम् स्वरूपं तटस्थं द्विधा लक्षणं स्यात् स्वरूपे प्रविष्टं स्वरूपाद्विभिन्नम् इति । तत्र स्वरूपलक्षणं यथा आकाशो बिलम् इति । यथा वेदान्तमते सच्चिदानन्दो ब्रह्म इति स्वरूपलक्षणम् । यथा मीमांसकमते चोदनालक्षणोर्थो धर्मः इत्यादौ चोदनावाच्यविधिवाक्यमेव धर्मस्वरूपज्ञापकमस्ति इति । तटस्थलक्षणं तु काकवत् देवदत्तगृहम् इति । अत्रोदासीनोपि काक इदं देवदत्तगृहमिति बोधयति । यथा वा पृथिव्या गन्धो लक्षणम् । स हि तटस्थलक्षणमपि पृथिवीं परस्माद्भिन्नतयानुमापयति । तथा हि पृथिवी जलादिभ्यो भिद्यते गन्धवत्त्वात् यन्नैवं तन्नैवम् यथा जलम् इति । मायावादिमते तु जगजन्मादिकारणं ब्रह्म इति तटस्थलक्षणम् । लक्षणेन च पदार्थज्ञानं सुकरं भवति । तदुक्तम् ऋषयोपि पदार्थानां नान्तं यान्ति पृथक्त्वतः। लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः ॥ इति । २ ब्यावर्तकम् । तच्च द्विविधम् विशेषणम् उपलक्षणं च। तत्रोपलक्षणं यथा जटाभिस्तापस इत्यादौ तापसादेः कालान्तरीणजटादिकं लक्षणम् (ग० व्यु० का० ३ पृ० ९१ ) । अयं च इत्थंभूतलक्षणे (पा० सू० २।३।२१) इति पाणिनिसूत्रघटकलक्षणशब्दस्यार्थः । विशेषणं तु पताकावद्देवदत्तगृहमित्यादौ पताका । तथाहि हि सजातीयविजातीयव्यावर्तकतया लक्ष्यावधारणं लक्षणस्य प्रयोजनम्। अस्मिन् ग्रामे देवदत्तगृहम् इति वार्ता श्रुतवतः पुरुषस्य तद्रामस्थेषु सर्वेषु गृहेष्वपि देवदत्तगृहबुद्धिप्रसक्तौ यत्र पताका वर्तते तद्देवदत्त८० न्या० को.. .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org