________________
न्यायकोशः ।
I
1
योग्यतापत्तेः । न हि तीरं नदी । तस्माद्वाक्यमेव तत्र गभीरनदीतीरस्य लक्षकम् इति । अत्र सिद्धान्तविदः नैयायिकाः समुत्तिष्ठन्ते । मीमांसकैर्यदुक्तं तन्न । नदीपदस्यैव गभीरनदीतीरात्मके विशिष्टे लक्षणा । गभीरपदं तु तात्पर्य ग्राहकमेव इति वाक्ये लक्षणा नास्त्येत्र ( मु० ४ पृ० १०१ ) ( न्या० म० ४ पृ० १२ ) इति । सैन्धवादयश्च शब्दाः लवणादाविव तुरगादावपि शक्ता एव इति न ते लक्षका भवन्ति । चटपटाद्यनुकरणस्य हुंफडादिस्तोमस्य च स्वानुभावकत्वमपभ्रंशानामिव शक्तिभ्रमादेव । अतो न तेषां लक्षकत्वम् इति विज्ञेयम् ( श० प्र० श्लो० २३ टी० पृ० ३२-३३ ) । लक्षकं च जहत्स्वार्थादिविविधलक्षणावत्त्वेनानेकविधम् । तथा हि जहत्स्वार्थलक्षणया तीरत्वादिना तीरादिबोधकं गङ्गादिपदम् । अजहत्स्वार्थलक्षणया द्रव्यत्वादिना नीलघटत्वादिना च द्रव्यनीलघटादिबोधकं घटादिपदम् । निरूढलक्षणया आरुण्यादिप्रकारेण तदाश्रयद्रव्यबोधकमरुणादिपदम् । आधुनिक लक्षणया ( स्वारसिक लक्षणया ) घटत्वादिना घटादिबोधकं पटपदम् । गौण्या लक्षणया अग्निसदृशत्वादिना माणवकबोधकमन्यादिपदम् (श० प्र० लो० २४ टी० पृ० ३५ ) इति । लक्षणम् -- १ [क] उद्दिष्टस्यातत्त्वव्यवच्छेदको धर्मः ( वात्स्या ० १ १ ३ ) ।
1
यथा इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानं... प्रत्यक्षम् ( वात्स्या० १|१|४ ) | इति प्रत्यक्षलक्षणम् । त्रिविधा शास्त्रस्य प्रवृत्तिः उद्देशः लक्षणम् परीक्षा चेति । तत्र उद्देशानन्तरं लक्षणम् । ततः परीक्षा । लक्षणस्य प्रयोजनं च सर्व हि लक्षणमितरपदार्थव्यवच्छेदकम् ( न्या० वा० १|१|१४ पृ० ८२ ) । पदार्थतत्त्वज्ञानं लक्षणस्य प्रयोजनम् इति तर्कभाषायामुक्तम् (त० भा० पृ० १ ) । व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजन. मिति दीपिकायाम् ( त० दी० पृ० ५ ) ( सि० च० ) । अत्रायं विशेषो ज्ञेयः । लक्षणस्य व्यावृत्तिप्रयोजनकत्वे सप्तपदार्थेतरत्वाप्रसिद्ध्या पदार्थ सामान्यलक्षणस्य अभिधेयत्वस्य प्रयोजनं शब्दप्रयोग एव । व्यावृत्तेरत्रासंभवात् । अन्येषां लक्षणानां तूभयं व्यावृत्तिर्व्यवहारश्च प्रयोजनम्
Jain Education International
For Personal & Private Use Only
६९५
www.jainelibrary.org