________________
न्यायकोशः। वा योन्तः सहचारः अव्यभिचरितसहचार एकान्तः । तद्वानकान्तिकः (गौ० वृ० १।२।४६)। अनैकान्तिकः सव्यभिचारशब्देन व्यवड़ियते। वैशेषिकमते तु संदिग्ध इत्युच्यते च इति बोध्यम् । अनैकान्तिकलक्षणं च साधारणाद्यन्यतमत्वम् (मु०) (वाक्य० )। अथवा सव्यभिचारत्वात्मकदोषवत्त्वम्। शिष्टं सर्व तु सव्यभिचारलक्षणव्याख्यानावसरे संपादयिष्यते । एकमात्रव्याप्तिग्राहकसहचारवानैकान्तिकः । तदन्योनैकान्तिक: (गौ० वृ० १।२।४६ ) निदर्शनम् । [क] नित्यः शब्दः अस्पर्शत्वादित्यत्रास्पर्शत्वादित्यनैकान्तिको हेतुर्बोध्यः । तथा हि-यत्र नित्यत्वाभावो नामानित्यत्वं तत्रास्पर्शत्वाभावो नाम स्पर्शवत्त्वम् । यथा कुम्भः । तत्र हि स्पर्शवत्त्वमनित्यत्वं च । तथा यत्रास्पर्शत्वं तत्र नित्यत्वं यथा आत्मा। एवं द्विविधदृष्टान्तसंभवेपि उभयोरपि बुद्धौ व्यभिचारः। तथा हि-बुद्धावनित्यत्वेपि स्पर्शवत्त्वं नास्ति तथा अस्पर्शरवेपि नित्यत्वं नास्तीति सव्यभिचारत्वादनैकान्तिकः । एवं चात्र नित्यत्वमप्येकोन्तः । अनित्यत्वमप्येकोन्तः। एकस्मिन्नन्ते विद्यत इत्यैकान्तिकः । विपर्ययादनैकान्तिकः । उभयान्तव्यापकत्वादिति वात्स्यायनभाष्ये (१।२।४६) स्पष्टम्। [ख] यस्माद्विषाणी तस्माद्दौरिति चानैकान्तिकस्योदाहरणम् ( वै० ३।१।१७ )। [ग] यथा वा धूमवान्वरित्यत्र वह्निरनैकान्तिकः ( त० सं०)। साध्यसंदेहजनकपक्षधर्मताज्ञानविषयोनैकान्तिकः (वै० वि० ३।१।१५) (त० व०)। इदं लक्षणं पूर्वं च प्राचीनमतानुसारेणोक्तमिति ज्ञेयम् । नवीनमतानुसारेण लक्षणं तु सव्यभिचारत्वशब्दव्याख्यानावसरे संपादयिष्यते । साध्यसंदेहश्च त्रिविधः । पक्षे सहचरत्वाद्वा साध्यतद्रहितत्वयोः । सामान्यावा विशेषाद्वा संशयो भवति त्रिधा । तदर्थश्च-साध्यतदभावयोः पक्ष एव हेतुसाहचर्यदर्शनात् संशयो भवति । यथा सर्वमनित्यं प्रमेयत्वादित्यादौ । ( अयमनुपसंहारी)। सामान्यधर्मदर्शनादपि संशयो भवति । यथा घटः क्षितित्ववान् द्रव्यत्वादित्यादौ । द्रव्यत्वं हि क्षितित्ववति घटादौ तद्भाववति जलादौ च वर्तत इति साधारणधर्मदर्शनादेवात्र संशय इति ( अयं साधारणानकान्तिकः )। विशेषधर्मदर्शनादपि संशयो भवति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org