________________
३६
न्यायकोशः ।
नान्तरीयकत्वं च तत्सत्तानियतसत्ताकत्वम् । [ खं ] अन्यार्थ प्रवृत्तस्य नान्तरीयकफलजनकत्वमित्यपि केचिद्वदन्ति ।
"
अनुसंधानम् — उपनयशब्दवदस्यार्थोनुसंधेयः ( प्रशस्त० २ ० २८ ) । अनेकत्वम् — १ एकत्वभिन्नसंख्याविशिष्टत्वम् ( दि० गु० १९२ ) । यथाअनेके ब्राह्मणाः सन्तीत्यादौ ब्राह्मणानामनेकत्वम् । २ अपेक्षाबुद्धिविशेषविषयत्वम् । यथा-अस्मिन्द्रव्येनेके गुणाः सन्तीत्यादावनेकत्वम् । अनेकद्रव्यत्वम्— अत्र अनेकं द्रव्यमाश्रयो यस्य तदनेकद्रव्यम् । तस्य भावः इति विग्रह: (वै० उ० ४। १ । ६ ) । [क] अनेकद्रव्याश्रिताश्रितत्वम् । स्वसमवेतसमवेतत्व संबन्धेन नानाद्रव्यवत्त्वमित्यर्थः ( राम ० १ ) । तद्यथा स्वशब्देन परमाणवो गृह्यन्ते । तत्समवेतं द्व्यणुकम् । तत्समवेतत्वं saणु वर्तत इति अनेन संबन्धेन परमाण्वात्मकनानाद्रव्यवत्त्वं त्र्यणुकेस्तीति त्र्यणुकादीनामनेकद्रव्यत्वं विज्ञेयम् । [ ख ] अवयव बहुत्वाधीनमहत्त्वाश्रयत्वम् (वै० उ० ४। १ । ६ ) । [ग] अनेकसमवेत - समवेतत्वम् (वै० वि० ४। १ । ६ ) । [घ] पारिमाण्डल्याभावविशिष्टद्रव्यत्वम् ( सि० च० २० ) । [ङ ] अणुभिन्नद्रव्यत्वम् ( दि० १।५४ ) । यथा प्रत्यक्षे महत्त्वं कारणम् । अनेकद्रव्यत्वमन्यथासिद्धम् ( मुक्ता० १५४ ) इत्यादौ व्यणुकादिघटपर्यन्तानामनेकद्रव्यत्वम् । अनेकाश्रितगुणत्वम् [क] एकत्वभिन्न संख्याविशिष्टधर्मि वृत्तिगुणत्वम् ।
अनेकाश्रितगुणाश्च संयोगो विभागो द्वित्वादिकाः संख्या द्विपृथक्त्वादयः ( मा० प० गु० ) । [ ख ] स्वाश्रय प्रतियोगि कान्योन्याभावसमानाधिकरणगुणत्वमिति केचिद्वदन्ति ( दि० गु० १९२ ) । घटः पटेन संयुक्तः इति व्यवहारात्संयोगस्य द्विष्ठत्वं प्रतीयते । तथा च स्वं संयोगस्तदाश्रयो घटस्तत्प्रतियोगिको योन्योन्याभाव: ( घटभेदः ) तत्समानाधिकरणत्वं ( तदाश्रयः पटस्तद्वृत्तित्वं ) संयोगे वर्तत इति संयोगादीनामनेकाश्रितत्वं ( अनेक वृत्तित्वम् ) संभवतीति बोध्यम् ( कि० टी० ) । [ग] एकत्वानवच्छिन्नवृत्तिकगुणत्वमित्यपि कश्चित् ( ल० ब० ३६ ) । अनैकान्तिकः - ( हेत्वाभासः) अत्र व्युत्पत्तिः । एकस्य साध्यस्य तदभावस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org