________________
न्यायकोशः। १८८ )। तञ्च व्याकरणादौ पूर्वसूत्रस्थपदस्योत्तरसूत्रे आकाङ्क्षापूरणार्थमनुसंधानम् । यथा इको यणचि इत्यतः अचीति सप्तम्यन्तपदस्य आद्गुणः इत्यादावनुवृत्तिः । अनुवृत्तिस्त्रिधा। सिंहावलोकितवत् मण्डूकप्लुतिवत् गङ्गास्रोतोवत् इति ( दि० ४।१८८)। अनुव्ययवसायः–व्यवसायगोचरं प्रत्यक्षम् ( म०प्र० ६९ )। यथा
घटज्ञानानन्तरं घटमहं जानामि इति मानसं ज्ञानम् । २ ज्ञातताव
भासकं ब्रह्मचैतन्यमिति मायावादिनः ( पश्च० कूट०)। ... अनुशासनम्-१ गमकम् । ज्ञापकं शास्त्रम् । यथा अथ शब्दानुशासन
मित्यादौ । अनुशासनमिति हि शास्त्रमाह । अनुशिष्यते व्याख्यायते लक्षणभेदोपायफलसहितो योगो येन तदनुशासनमिति व्युत्पत्तेः ( सर्व० सं० पृ० ३३७ पात०)। २ यथार्थज्ञापनम् । यथा ऋणे देये प्रतिज्ञाते पश्चकं शतमर्हति । अपहृते तद्विगुणं तन्मनोरनुशासनमित्यादौ । ३ दण्डनम् । यथा एष स्तेनानुशासी राजेत्यादौ (विक्रमोर्वशी )। ४ देशनया प्रवर्तना । यथा पुत्रं धर्ममनुशास्तीत्यादौ धात्वर्थः ( श० प्र० ९९:)। अत्र पुत्रनिष्ठस्य देशनया प्रवर्तनस्यानुकूलव्यापारवानित्यर्थः । तथाविधो व्यापारः संध्यां विधेहि समिधमाधेहि इत्याधुप
देशरूपः ( श० प्र० ९९)। अनुषङ्ग:-१ अविनाभावः। यथा सुखं दुःखानुषङ्गाहुःखमेवेत्यादौ (त०
भा० ४१)। २ नेदीयःस्थानान्तरस्थितस्य (पदस्य) कचिदनुसंधानम् (दि० ४।१८८)। यथा पञ्चावयववाक्येषूपनयवाक्यस्थस्य अयम् इति पदस्य तस्माद्वह्निमान् इति निगमनवाक्येनुषङ्गः। ३ [क] प्रसङ्गः । स चान्योद्देशेन प्रवृत्तस्य तन्नान्तरीयकविधयान्यसिद्धिः । यथाक्षयं केचिदुपात्तस्य दुरितस्य प्रचक्षते । अनुत्पत्तिं तथा चान्ये प्रत्यवायस्य मन्वते । नित्यक्रियां तथा चान्ये ह्यनुषङ्गफलां श्रुतिमित्यादौ ( वाच० )। नान्तरीयकविधयान्यसिद्धिश्च यथा-विप्रवधप्रायश्चित्तेन तन्नान्तरीयकविधया अवगोरणदण्डनिपातनप्रायश्चित्तसिद्धिः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org