SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः । ६८९ - रूपत्वम् — नीलसमवेत गुणत्वापरजाति: ( सर्व० सं० पृ० २२० औ० ) । रूपम् – १ ( गुणः ) [क] चक्षुर्मात्रग्रहणो योर्थस्तत् । तच्च बाह्यैकेन्द्रियग्राह्यम् (वै० उ० ३।१।१ ) द्रव्याद्युपलब्धिकारणम् नयनसहकारि च भवति ( भा० प० श्लो० १०१ ) ( प्रशस्त० ) । परमाणुगतं तु रूपं न प्रत्यक्षम् । एवं रसगन्धादिकमपि बोध्यम् । अत्र प्राञ्चो नैयायिका आहुः । द्रव्यगुणकर्मसामान्यानां चाक्षुषं स्पार्शनं च प्रत्यक्षं प्रतिरूपं कारणम् इति कार्यकारणभावः । तेन वायौ रूपाभावान्न स्पार्शनप्रत्यक्षम् इति । नव्यास्तु चाक्षुषे द्रव्यप्रत्यक्षे एव रूपं कारणम् इति कार्यकारणभावः । तेन वायौ रूपाभावेपि स्पार्शनप्रत्यक्षमुपपद्यते इत्यङ्गीचक्रुः ( भा० प० श्लो० ५७ ) ( मु० १ पृ० ११३ ) । अत्रेदं बोध्यम् । रूपस्य चाक्षुषप्रत्यक्षे च मध्यमं महत्परिमाणम् उद्भूतत्वम् अनभिभूतत्वम् रूपत्वं च प्रयोजकम् । तत्र महत्परिमाणं तु सामानाधिकरण्यसंबन्धेन इति ज्ञेयम् । तेन परमाणौ महत्परिमाणाभावेन तद्वृत्तिरूपस्य प्रत्यक्षनिवारणम् । चक्षुर्वृत्तिरूपस्यानुद्भूतत्वेन तादृशरूपस्य प्रत्यक्षनिवारणम् । वैश्वानरे मरकत किरणादौ च विद्यमानस्य शुक्लरूपस्य वैश्वानरादि संबद्ध पार्थिवरूपेणाभिभवात्प्रत्यक्ष निवारणम् । रसस्पर्शादौ . रूपत्वविरहाच्चाक्षुषत्वाभावः (वै० उ० ४|१|८ ) ( मु० १ तेजोनि० पृ० ७८ ) इति । चक्षुर्मात्रग्रहणो योर्थ इत्यत्र अर्थशब्देन धर्मी भावभूत उच्यते । तेन गन्धत्वादौ गन्धाद्यभावे च नातिव्याप्तिः (वै० उ० ३|१|१ ) । द्रव्यादित्रयमेवार्थः इति काश्यपनिर्णयः । अतो रूपादिसामान्यैर्नातिव्याप्तिर्भविष्यति ।। ( ता० २० श्लो० ४१ ४२ ) इति । काश्यपः कणादः । [ख] चक्षुर्मात्रवहिरिन्द्रियग्राह्यजातिमत् (वै० उ० ७|१।६ )। तादृशी जातिश्च रूपत्वादिः । [ग] नीलसमवेतगुणत्वापरजातिमत् ( सर्व० पृ० २२० औलू० ) । [घ] चक्षुर्मात्राह्यो विशेषगुणः ( त० कौ० ) ( त० सं० ) ( प्रशस्त ० ) । तदर्थश्च इतरेन्द्रियाप्राह्यत्वं मात्रपदार्थः । चक्षुषश्चेतरत्वे ग्रहे चान्वयः । अथ वा चित्रगुरित्यादौ गोपदस्येव ग्राह्यपदस्येव चक्षुरितरेन्द्रियाग्राह्यत्वविशिष्टचक्षुर्पाह्यत्वविशिष्टे लक्षणा । अवशिष्टपदे तात्पर्यग्राहके । उभयत्र ८७ न्या० को ० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy