________________
६९०
न्यायकोशः। ग्राह्यत्वं लौकिकविषयताश्रयत्वम् । तेन गुरुत्वादीनां चक्षुषा अलौकिकग्रहेपि नातिव्याप्तिः । न वा रूपस्येतरेन्द्रियेणालौकिकग्रहेप्यसंभवः (वाक्य० १ पृ०६) इति । जन्यत्वं चेतरनिरूपितमसाधारणं ग्राह्यम् । तथा च चक्षुरितरेन्द्रियजन्यग्रहीयलौकिकविषयताशून्यत्वे सति चक्षुर्जन्यग्रहीयलौकिकविषयताशालित्वे च सति विशेषगुणत्ववत् । अत्र संयोगादिवारणाय प्रथमं सत्यन्तं दत्तम् । गुरुत्वादिवारणाय द्वितीयं सत्यन्तं दत्तम् । रूपत्वादिवारणाय गुणत्वं दत्तम् . । प्रभाभित्तिसंयोगादिवारणाय विशेष इति पदं दत्तम् इति विज्ञेयम् (वाक्य० १ पृ० ६)। वस्तुतः [3] त्वगग्राह्यचक्षुर्याह्यगुणविभाजकधर्मवत् । तेन न परमाणुरूपे अव्याप्तिः इति विज्ञेयम् (वाक्य० १ पृ० ६)। अथ वा [च] चक्षुर्ग्रहणवृत्तिगुणत्वावान्तरजातिमत् (वै० उ० ३।१।१ )। [छ ] चक्षुर्मात्रग्राह्यजातिमान गुणः। अत्र गुणपदं प्रभावारणाय दत्तम् । (त० कौ० १ पृ० ४ )। स च गुणः सप्तविधः शुक्लः नीलः पीतः रक्तः हरितः कपिशः चित्रः इति । केचिच्चित्ररूपं नाङ्गीकुर्वन्ति ( त० कौ०१ पृ० ४ )। सिद्धान्तस्तु नीलपीतादिरूपकदम्बस्य चित्ररूपजनकत्वमध्यक्षसिद्धम् ( न्या० ली० पृ० १२ ) इति चित्ररूपमङ्गीकर्तव्यम् । अयं भावः । पटादिप्रत्यक्षान्यथानुपपत्त्या चित्ररूपमवश्यमङ्गीकार्यम् । तथा हि द्रव्यविषयकलौकिकचाक्षुषप्रत्यक्षं प्रति रूपं कारणम् इत्यनुभवसिद्धः कार्यकारणभावः स्वीकार्यः । तथा च चित्ररूपानङ्गीकारे रूपस्य दैशिकव्याप्यवृत्तित्वनियमादेकस्मिन्पटे नानारूपानङ्गीकारेण रूपसामान्याभावप्रसङ्गात्पटप्रत्यक्षस्यानुपपत्तिः ( त० दी० १ पृ० १२ ) इति। तच्च रूपम् पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् पाकजम् अनित्यं च । अयं भावः । कचित पाकजम कचित्तु अपाकजम् एवमुभयविधमपि पृथिव्यां तिष्ठति । तथा च पाकजन्यस्यापाकजन्यस्य अवयवगतरूपजन्यस्य चोभयविधस्याप्यनित्यत्वम् इति । जले तेजसि च शुक्लमेव रूपं तिष्ठति । तचापाकजम् नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगत प्रनित्यम् । भास्वराभास्वरभेदेन द्विविधं च । शुक्लं भास्वरं तेजसि । अभास्वरं शुक्लं जले ( त० भा० ) ( त० सं० )। रूप
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org