________________
६८८
न्यायकोशः। निरूढलक्षणा इति व्यवहारः । अन्यथा बाधप्रयोजनाभावे रूढिशक्तिरेव । यथा कुशलपदे तैलपदे च इत्याहुः (ल० म० आकाङ्क्षावि० पृ० १४ )। अत्र तैलपदस्य तिलविकारद्रव्ये शक्तस्य सार्षपादौ निरूढलक्षणा । शिष्टं तु निरूढलक्षणाशब्दे दृश्यम् । रूढिः-१ (शब्दशक्तिः)[क] समुदायशक्तिः (त. दी० ४ )। यथा
मण्डप इत्यादिपदे रूढिः शक्तिः । अत्र मकारादिवर्णानुपूर्वीकत्वेन शक्त्या जनाश्रयो बोध्यते इति विज्ञेयम् । [ख] शाब्दिकास्तु शास्त्रकृत्कल्पितावयवार्थाप्रतीतौ यदर्थनिरूपितं प्रकृतिप्रत्ययसमुदायमात्रे बोधकत्वम् तत्पदे सा तदर्थनिरूपिता रूढिः । यथा मणिनपुरादौ इत्याहुः (ल० म०
आकाङ्क्षादिवि० पृ० १२ )। अत्र कुमारभट्ट आह लब्धात्मिका सती रूढिर्भवेद्योगापहारिणी । कल्पनीया तु लभते नात्मानं योगबाधतः ॥ इति । तदर्थस्तु लब्धात्मिका क्लुप्ता शक्तिर्योगबाधिका। कल्पनीया तु योग
बाध्या (वाच० ) इति । २ जन्म । ३ प्रसिद्धिः इति काव्यज्ञा आहुः । रूढिलक्षणा—निरूढलक्षणाशब्दवदस्यार्थीनुसंधेयः । रूप-(धातुः ) प्रमाणोपन्यासेन स्वरूपादिकथनम् । यथा रूपयति अरु__ रूपत् इत्यादौ धात्वर्थः । रूपकम्-१ मूर्तम्। २ शुक्लादिवर्णविशेषः । ३ आकारः। ४ साहित्यशास्त्र
ज्ञास्तु अभिनयप्रदर्शको दृश्य काव्यविशेषः । यथा शाकुन्तलादि इत्याहुः । रूपकस्थ दशविधा भेदाः । नाटकमथ प्रकरणं भाणव्यायोगसमवकारडिमाः । ईहामृगाङ्कवीथ्यः प्रहसनमिति रूपकाणि दश ॥ इति । तस्य रूपकसंज्ञाहेतुमाह तद्रूपारोपात्तु रूपकम् इति । तदृश्यं काव्यम् इति । यथा नटे रामादिस्वरूपारोपात् रूपकम् इत्युच्यते ( सा० द० परि० ६ श्लो० २७३-२७४ )। ५ आलंकारिकान्तु अर्थालंकारविशेषः इत्याहुः । तल्लक्षणं तु रूपकं रूपितारोपाद्विषये निरपह्नवे ( सा० द० परि० १० श्लो० ६६९ ) इति । ६ गणकास्तु गुञ्जात्रयपरिमाणम् इत्याहुः । अत्रोच्यते संचाली प्रोच्यते गुञ्जा तास्तिस्रो रूपकं भवेत् ( युक्तिक०) इति । ७ राजतो नाणकविशेष इत्याधुनिका व्यवहरन्ति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org