________________
न्यायकोशः। च हरिसंप्रदानिका भक्तिकर्तृका रुचिः इति बोधः । हरिनिष्ठा या भक्तिविषया प्रीतिः तदनुकूलो भक्तिनिष्ठो व्यापारः इति यावत् ( ल० म० का० ४ पृ० १०२ )। २ आसङ्गः। ३ अभिलाषः । ४ किरणः । ५ शोभा। ६ बुभुक्षा । ७ गोरोचना चेति काव्यज्ञा आहुः । ८ प्रजापतिविशेषः इति पौराणिका आहुः । ९ आलिङ्गनविशेषः इति - कामशास्त्रज्ञा अङ्गीचक्रुः ( वाच० )। रुद्रः-१ अष्टमी तिथिः । कामशब्दे दृश्यम् । २ एकादशी तिथिः (पुरु०
पृ० ३७) । ३ एकादशभेदभिन्न ईश्वरविशेषः । एकादशभेदाश्च यथा वीरभद्रश्च शंभुश्च गिरिशश्च महायशाः ॥ अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ॥ भुवनाधीश्वरश्चैव कपाली च विशांपतिः । स्थाणुर्भवश्व
भगवान् रुद्रास्त्वेकादश स्मृताः ।। (याज्ञ० अ० २ श्लो० १०२ मिता०)। रूढम्-१ (नाम)[क] यत्रावयवशक्तिनैरपेक्ष्येण समुदायशक्तिमात्रेणार्थो
बुध्यते तत्पदम् । यथा गोमण्डलादिपदम् (मु० ख० ४ पृ० १७९ ) ( त० प्र० ख० ४ पृ० ३० )। [ख] रूढिशक्तिमात्रेणार्थप्रतिपादकं पदम् । यथा गोपदघटादिपदम् (नील० ४ पृ० ३१ )। [ग] यन्नाम यादृशार्थे संकेतितमेव न तु यौगिकमपि तद्रूढम् । यथा · गोप्रभृत्यर्थे गवादिशब्दो रूढः ( श० प्र० श्लो० १५ पृ० १८ )।
अत्र गमेझैः ( उणा० सू० २।६७ ) इत्यौणादिकप्रत्ययस्य शक्तिविरहेण यौगिकत्वविरहात् गकारोत्तरीकारत्वाद्यानुपूर्वीकत्वेनैवार्थबोधकत्वम् । रूढं संज्ञा इति पदेनाभिलप्यते ( श० प्र० श्लो० १६ टी० पृ० १९)। अतः रूढ इति शब्दस्य विभागः संज्ञाशब्दव्याख्याने दृश्यः। [घ] प्रकृतिप्रत्ययार्थमनपेक्ष्य समुदायशक्त्यार्थबोधकम् । २ जातम् ।
३ प्रसिद्धम् इति काव्यज्ञा आहुः । रूढयौगिकम्- ( नाम ) यौगिकरूढशब्दवदस्यार्थीनुसंधेयः ( श० प्र०
श्लो० १५)। रूढलक्षणा-[क] निरूढलक्षणाशब्दवदस्यार्थीनुसंधेयः। [ख] शाब्दिकास्तु
असति प्रयोजने शक्यार्थबाधप्रतिसंधानपूर्वकतत्संबन्ध्यपरार्थबोधे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org