________________
६८६
न्यायकोशः ।
इत्याहुः | २ पौराणिकादयस्तु पितॄणां शुक्लपक्षरूपः कालः देवानां च दक्षिणायनरूपः काल इत्याहुः । तदुक्तम् मासेन च मनुष्याणां पितॄणां तदहर्निशम् । कृष्णपक्षे दिनं प्रोक्तं शुक्ले रात्रिः प्रकीर्तिता ॥ इति । देवविषयेप्युक्तम् उत्तरायणे दिनं प्रोक्तं रात्रिः स्याद्दक्षिणायने ( वाच० ) इति । ३ हरिद्रा इति काव्यज्ञा आहुः ।
•
रामायणम् — दशरथपुत्ररामचरितप्रतिपादकम् आदिकविवाल्मीकिकृतं महाकाव्यम् । तच्च सप्तकाण्डात्मकम् ब्रह्मलोके कोटिश्लोकात्मकम् मनुष्यलोके चतुर्विंशतिसाहस्रं पञ्चशतसर्गयुतम् । सप्तकाण्डानि तु बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् उत्तरकाण्डं च इति । तत्प्रतिपाद्यविषयाश्च संक्षिप्तकथाः गरुडपुराणे ( अ० १४८ ) पद्मपुराणे चोक्तास्तत्र दृश्याः । रिक्थग्राहः — विभागद्वारेण रिक्थं गृह्णातीति रिक्थग्राहः । वारस इति प्र० ( मिताक्षरा अ० २ श्लो० ५१ ) ।
रिक्थम् — अन्यदीयं द्रव्यमन्यस्य क्रयादिव्यतिरेकेण यत्स्वीयं भवति तद्रिक्थम् ( मिताक्षरा अ० २ श्लो० ५१ ) ।
रुक्मम्- -कण्ठे धृतः सन्नुरसि लम्बमानः सौवर्ण आभरणविशेषः रुक्मशब्दार्थ : ( जै० न्या० अ० ५ पा० २ अधि० १२ ) । रुचिः – १ [क] प्रीतिजनकता । यथा नारदाय रोचते कलह इत्यादौ रुच्यर्थः (ग० व्यु० का ० ४ पृ० ९६ ) । अत्र रुच्यर्थानां प्रीयमाणः ( पा० सू० १।४।३३ ) इत्यनुशासनेन प्रीतिजनकतारूपरुच्यर्थघटकप्रीतिभागिनः संप्रदानसंज्ञा विहिता । तादृशक्रियाश्रयतया कलहादेः कर्तृता । तथा च आश्रितत्वं चतुर्थ्यर्थः । तस्य प्रीतावन्वयः । तादृशजनकत्वस्य कलहेन्वयः ( ग० व्यु० का ० ४ पृ० ९६ ) । [ख] वैयाकरणास्तु विषयता संबन्धावच्छिन्नप्रीत्यनुकूलस्तत्समानाधिकरणो व्यापारः । यथा हरये रोचते भक्तिरित्यादौ रुचेरर्थः इत्याहुः । अत्र व्यापारफलभूतप्रीतेः समवायेनाश्रयो हरिः संप्रदानत्वशक्तिमान् । तथा
I
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org