________________
न्यायकोशः।
६८३ स च रसः पृथिवीजलवृत्तिः । तत्र पृथिव्यां मधुरादिषट्प्रकारः पाकजः अनित्यश्च । अप्सु मधुरः अपाकजो नित्यानित्यात्मा। जलपरमाणुगतः नित्यः । व्यणुकादिजलगतः अनित्यः ( त० भा० प्रमेयनि० पृ०३२) (प्रशस्त० पृ० १२ ) ( त० सं० )। अत्रेदं बोध्यम् । जले मधुर एव रसोस्ति । जम्बीररसादावम्लत्वग्रहस्त्वौपाधिकः जम्बीरगतोम्लस्तद्गतजले परंपरया प्रतीयते ( वाक्य० १ पृ० ७ ) ( मु० १ पृ० ७६ ) इति । २ रसायनशास्त्रज्ञास्तु सारः। यथा ओषधीनां रसः ( ताण्ड्यब्राह्मणम् ) इत्यादौ गुडमधूकपुष्पबकुलत्वग्बदरीमूलादिभवः सारः इत्याहुः । सारोत्र मदिरा । अलंकारशास्त्रे तु धर्मदत्त आह रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते। तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः॥ ( सा० द० परि० ३ श्लो० ३३ टी० पृ० १७ ) इति । ३ देहस्थो भुक्तानादेः प्रथमपरिणाम इति भिषज आहुः । अत्रोच्यते भावप्रकाशे यत्पाथो रसधातुर्यस्ततोभवदपां रसः । सद्रवं सकलं देहं रसतीति रसः स्मृतः ॥ इति । अथ रसस्य स्वरूपमाह सम्यक्पकस्य भुक्तम्य सारो निगदितो रसः इति ( वाच० )। ४ आलंकारिकास्तु विभावानुभावसंचारिभावव्यङ्गयो रत्यादिस्थायिभावकः शृङ्गारादिर्नवविधः रस इत्याहुः। तल्लक्षणं चोक्तम् विभावेनानुभावेन व्यक्तः संचारिणा तथा । रसतामेति रत्यादिः स्थायी भावः सचेतसाम् ॥ इत्यादि ( सा० द० परि० ३ श्लो० ३२ पृ० १६)। नवविधस्तु शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्सोद्भुत इत्यष्टौ रसाः शान्तस्तथा मतः ॥ ( सा० द० परि० ३ श्लो० २०९) इति । वत्सलाख्यं दशममपि रसं मुनीन्द्रादयोगीचक्रुः ( सा० द० परि० ३ श्लो० २४१ पृ. ६५ )। ५ ब्रह्मण आनन्दः ज्ञानं वा रसः । यथा रसो वै सः रस ह्येवायं लब्ध्वानन्दी भवति ( तैत्ति० उप० २७) इत्यादौ इति वेदान्तिन आहुः । अत्रालंकारिका आहुः । सत्त्वोद्रेकादखण्डस्वप्रकाशानन्दचिन्मयः । वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वाइसहोदरः ॥ ( सा० द० परि० ३ श्लो० ३३ पृ० १६) इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org