SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। रसः-१ (गुणः) [क] रसग्रहणो योर्थः सः (वै० उ० ३।१।१ प्रशस्त० पृ० १२ )। अत्र अर्थशब्देन धर्मी भावभूत उच्यते । तेन रसत्वादी रसायभावे च नातिव्याप्तिः । स च बाबैकेन्द्रियग्राह्यः । (वै० उ० ३।१।१ ) रसनसहकारी च ( प्रशस्त० पृ० १२ )। लक्षणं तु रसत्वमेव । तच्च रसनग्राह्यगुणविभाजकधर्मवत्त्वम् (वाक्य०१ :: पृ० ७ ) ( वै० उ० ७१।६ )। अत्र व्युत्पत्तिः रस्यते आस्वाद्यते .: इति रसः (कर्मणि प्रत्ययः )। [ख] रसनग्राह्यो गुणः ( त० भा०) ( त० सं० )। अत्र निष्कर्षस्तु रसनग्रहणवृत्तिगुणत्वावान्तरजाति: मत्त्वम् इति । तेन नातीन्द्रियरसाद्यसंग्रहः (वै० उ० ३।१।१ )। [ग] रसनमात्रग्राह्यजातिमान् ( त० कौ० १ पृ० ४ ) । अत्र रसनग्राह्यां रसादिगतां सत्तां जातिमादाय द्रव्यादावतिव्याप्तिवारणाय मात्र इति पदं दत्तम् । [ घ] रसवृत्तिगुणत्वसाक्षाव्याप्यजातिमान् (वै० उ० ७।१।६ )। सा च जातिः रसत्वम् । रसः षड्विधः मधुरः अम्लः लवणः कटुः कषायः तिक्तश्च इति । द्रव्यगतमधुरादिषद्भिधरसानां कारणादिकमुच्यते सुश्रुतग्रन्थे । स खल्वाप्यो रसः शेषभूतसंसर्गाद्विभक्तः षोढा विभज्यते । तद्यथा मधुरोम्लो लवणः कटुकस्तिक्तः कषायः इति । ते च भूयः परस्परसंसर्गात् त्रिषष्टिधा ( ६३ ) भिद्यन्ते । तत्र • (१) भूम्यम्बुगुणबाहुल्यान्मधुरः । ( २ ) भूम्यग्निगुणबाहुल्यादम्लः । (३) तोयाग्निगुणबाहुल्याल्लवणः । (४) वाय्वग्निगुणबाहुल्यात्कटुकः । । (५) वाय्वाकाशगुणबाहुल्यात्तिक्तः । (६.) पृथिव्यनिलगुणबाहुल्या स्कषायः इति । तत्र मधुराम्ललवणा वातघ्नाः। मधुरतिक्तकषायाः पित्तघ्नाः । कटुतिक्तकषायाः श्लेष्मघ्नाः । तत्र वायुरात्मनैवात्मा पित्तमाग्नेयम् श्लेष्मा सौम्यः इति । त एव रसाः स्वयोनिवर्धनाः अन्ययोनिप्रशमनाश्च (सुश्रुतेः रसविशेष० )। केचिदाहुः । अग्नीषोमीयत्वाज्जगतो रसा द्विविधाः सौम्याः आग्नेयाश्च । तत्र मधुरतिक्तकषायाः सौम्याः कटम्बुलवणा आग्नेयाः । मधुराम्ललवणाः स्निग्धाः गुरवश्व । कटुतिक्तकषाया रूक्षा लघवश्च । सौम्याः शीताः आग्नेयाश्चोष्णाः ( सुश्रु० )। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy