________________
न्यायकोशः।
रक्तः-१ (गुणः ) रूपविशेषः। यथा रक्तो घट इत्यादौ । अत्र रक्त
पदस्य शक्तिबोध्योर्थो रक्तरूपमेव । तथापि रक्तघटयोः सामानाधिकरण्यानुरोधेनात्र रक्तपदस्य रक्तरूपवति लक्षणा न्यायमते स्वीक्रियते । तेन रक्तरूपवदभिन्नो घटः इति शाब्दबोधः । शाब्दिकास्तु गुणवचनेभ्यो मतुपो लुगिष्टः इति वार्तिकेन लुप्रेन मतुपैव विशिष्टार्थो बोध्यते इति रक्तपदस्यात्र शक्त्यैव बोध्योर्थो गृह्यते । नात्र लक्षणा स्वीकार्या इत्याहुः । २ शरीरस्थो रसपाकजन्यो मांसहेतू रुधिराख्यो धातुविशेषः । तत्स्वरूपमुक्तं भावप्रकाशे यथा यदा रसो यकृयाति तत्र रञ्जकपित्ततः । रागं
पाकं च संप्राप्य स भवेद्रक्तसंज्ञकः ॥ इति । रक्षणम्-त्राणम् । रजा-[क] जगत्कारणे या दुःखात्मता तद्रजः ( सर्व० सं० पृ० ३२६
सां० )। [ख] जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् ( याज्ञवल्क्य ___ अ० १ श्लो० ३६२ )। रजनी-तत्परा रजनी ज्ञेया (पुरु० पृ० ४६ ) तत्परा सायंकालात्परा । रत्नत्रयम्-रत्नत्रयपदवेदनीयतया प्रसिद्धं सम्यग्दर्शनादित्रितयमहत्प्रवचन
संग्रहपरे परमागमसारे प्ररूपितं सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः
( सर्व० सं० पृ० ६२ आहे. ) इति । रथकारः-वैश्यायां क्षत्रियादुत्पन्नो माहिष्यः । शूद्रायां वैश्यादुत्पन्ना
करणी । तस्यां करण्या माहिष्यादुत्पन्नो रथकारः (जै० न्या० अ० ६ पा० १ अधि० १२ ) । तथा च याज्ञवल्क्यः माहिष्येण करण्यां
तु रथकारः प्रजायते ( याज्ञ० ११९५ ) इति । रथसप्तमी–यस्यां मन्वन्तरस्यादौ रथारूढो दिवाकरः । माघमासस्य सप्तम्या __सा तस्माद्रथसप्तमी ॥ ( पु० चि० पृ० १०४ )। रन्ध्रम्-नवमी ( पु० चि० पृ० ३० )। ८६ न्या० को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org