________________
काशः।
६८०
न्यायकोशः। यौगिकरूढम्-(नाम शक्तपदम् ) [क] यत्रावयवार्थरूढ्यर्थयोः स्वात येण
बोधः तत् (मु० ४ पृ० १८०) (त० प्र० ४ पृ० ३०) । अत्र यौगिकं च तद्रूढं च इति व्युत्पत्तिरनुसंधेया (नील०४ पृ०३१)। अत्र शब्दशक्तिप्रकाशकृत आहुः । इदं यौगिकरूढं पदं रूढयौगिकम् इत्यप्युच्यते ( श० प्र० श्लो० १५ ) इति । एतस्योदाहरणं तु नामशब्दव्याख्याने संपादितम् इति तत्र दृश्यम् । वयमत्राधिकं ब्रूमः । योगरूढिरूपशक्तिवद्यौगिकरूढिरूपा शक्तिर्नातिरिक्ता । किंतु योग रूढि एतदुभयात्मिकैव। योगरूढिशक्तिस्तु योगविशिष्टरूढित्वेन रूपेण विशिष्टैकार्थबोधकतया अतिरिक्ता इति विशेषः इति । [ख] यौगिकार्थरूढार्थयोः स्वातश्येण बोधकं पदम् । [ग] योगेन रूढ्या च परस्परासहकारेणार्थप्रतिपादकम् । यथा उद्भिदादिपदं यौगिकरूढम् । अत्र उद्भित्पदं योगेन तरुगुल्मादेः रूढ्या तु यागविशेषस्य वाचकम् । (नील० ४ पृ० ३१) (मु० ४) । अत्र प्रमाणम् उद्भिदस्तरुगुल्माद्याः ( अमर० का० ३ वर्ग० १ श्लो० ५१ ) इति । उद्भिदा यजेत पशुकामः (श्रुतिः) इत्यादावुद्भित्पदं तन्नामकयागविशेषवाचकम् । अथ वा उद्भित्पदं यौगिकं खनित्रे रूढं यागविशेषे ( त० प्र० ख० ४ पृ० ३०)। यथा वा अश्वगन्धादिपदं यौगिकरूढम् । तथा हि। अश्वगन्धादिपदात्कदाचिदोषधिनिष्ठसमुदायनिरूपितशक्त्यौषधिबोधः । कदाचित्तु अश्वस्य गन्धोस्याम् इति व्युत्पत्त्या वाजिशालादिबोधोवयवशक्त्या इति (वै० सा० द०)। अथ वा अश्वगन्धादिपदमौषधिविशषबोधे रूढम् । अश्वसंबन्धवत्तया वाजिशालाबोधे यौगिकम् । इदं यौगिकरूढम् इत्युच्यते । रूढिर्योगापहारिणी इति तु प्रकरणाद्यभावे बोध्यम् । यत्र मण्डपपदादिभ्यो मण्डपानकादे रूढ्यर्थमण्डपादिगुणवत्त्वेन बोधस्तत्र प्रथमप्रतीतरूढिविषय मुख्यार्थापरित्यागेन योगादूढिपूर्वकलक्षणाया बलवत्त्वेन लक्षणयैव बोधः ( ल० म० आकाङ्क्षादिवि० पृ० १२)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org