________________
न्यायकोशः 1
६७९ पत्तिः । तथा हि आलोकसंयोगाद्य सत्त्वदशायां अत्र घटः स्यात् तर्छुपलभ्येत इत्यापादनासंभवेन योग्यानुपलब्ध्यभावात् न तत्र घटाभावप्रत्यक्षम् ( नील० पृ० १८ ) इति । अत्र भट्टा आहुः अभावप्रत्यक्षे चेन्द्रियं न करणं किंतु योग्यानुपलब्धिरेव ( दि० १ ) इति । अत्रेदं बोध्यम् यस्य सत्त्वं यत्रानुपलब्धिविरोधि तस्याभावस्तत्र गृह्यते ( चि० ४ ) इति । शिष्टमुदाहरणप्रयोजनादिकं च अनुपलब्धिशब्दव्याख्यानावसरे योग्यताशब्दव्याख्यानावसरे च संपादितम् तत्तत्र दृश्यम् ।
1
योनिजम् – ( शरीरम् ) शुक्रशोणितयोः परस्परमेलनजन्यम् ( दि० १/२ पृ०७० ) ( सि० च० १ पृ० ६ ) । यथा मनुष्यादिशरीरं योनिजम् । शिष्टं तु शरीरशब्दे दृश्यम् ।
यौगपद्यम् — १ एककालवृत्तित्वम् ( ग० सत्प्र० ) । अनेकेषामेकक्षणसंबन्धः इत्यर्थः । यथा घटपटयोयौगपद्यम् । एककालोत्पत्तिकत्वम् ( मु० ) । यथा अयौगपद्याज्ज्ञानानां तस्याणुत्वमिहोच्यते ( भा० प० लो० ८६ ) इत्यादी यौगपद्यम् ।
यौगिकम् - - ( नाम शक्तपदं वा ) [क] यत्रावयवार्थ एव बुध्यते तत्पदम् ( मु० ४ पृ० १७९ ) ( त० प्र० ख० ४ पृ० ३० ) । [ ख ]. अवयवशक्तिमात्रेणार्थप्रतिपादकम् । यथा पाचकादिपदम् ( नील० ) ( मु० ४ ) । अत्र पचति इति व्युत्पत्त्या प्रकृतिप्रत्ययादिना पाककर्ता बोध्यते इति विज्ञेयम् । [ ग ] यन्नाम स्वान्तर्निविष्टशब्दानां योगलभ्यस्यैव यादृश्यार्थस्यान्वयबोधं प्रति हेतुः तन्नाम तादृशार्थे यौगिकम् । तच्च यौगिकं त्रिविधम् समासः तद्धिताक्तम् कृदन्तं चेति । अत्र विशेषो ज्ञेयः । द्वन्द्वोपि समासः स्वघटकशब्दानामाकाङ्क्षया लभ्यस्य धवखदिराद्यर्थस्यान्वयबोधकतया यौगिक एव । ब्राह्मणी श्वश्रूः शूद्रेत्यादौ ङीबादेः स्त्रीत्वाचत्वे तादृशं नाम यौगिकमेव । अन्यथा तु स्त्रीत्वादिमति तत्तदर्थे रूढमेव । नातो विभागस्य व्याघातः इति (श० प्र० श्लो० २९ टी० ० पृ० ३८ ) ।
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org