________________
६७८
न्यायकोशः। गुरुत्वाभावस्य च योग्यमात्राप्रतियोगिकत्वाच्च इति । ४ जात्यवच्छिन्नप्रतियोगिताकत्व जात्यतिरिक्तयोग्यधर्मावच्छिन्नप्रतियोगिताकत्व एतदन्यतरत् ( दि० ११३ पृ० १२६-१२७ )। अत्र जात्यवच्छिन्नप्रतियोगिताकत्वेत्युक्त्या स्तम्भे पिशाचान्योन्याभावप्रत्यक्षम् (स्तम्भः पिशाचो न इति प्रत्यक्षम् ) उपपद्यते । जात्यतिरिक्तेत्यायुक्त्या च घटवदन्योन्याभावादेः प्रत्यक्षमुपपद्यते इति ज्ञेयम् (राम० ११३ पृ० १२८ )। इयं च योग्यता अन्योन्याभाववृत्तिरन्योन्याभावप्रत्यक्षे प्रयोजिका च अधिकरणयोग्यता इति व्यवह्रियते । तेन स्तम्भेपि पिशाचान्योन्याभावपिशाचवदन्योन्याभावयोः प्रत्यक्षत्वाप्रत्यक्षत्वोपपत्तिः । अधिकरणयोग्यतेत्यस्य योग्याधिकरणवृत्तित्वमित्यर्थः । तेन स्तम्भ इव वाय्वादौ न · पिशाचान्योन्याभावप्रत्यक्षम् इति भावः ( दि० ११३ पृ० १२७ )। ५ अनुमित्सानन्तरं लिङ्गदर्शनादिक्रमेण यावता कालेनोत्सर्गतः परामर्शो जायते तावानेव कालः । अनुमित्सोत्पत्त्यधिकरणक्षणमारभ्य क्रमेण पक्षविषयकलिङ्गज्ञानव्याप्तिस्मरणयोरुत्पत्ची सत्यामुत्सर्गतो यावता कालेन परामर्शोत्पत्तिः अनुमित्सोत्पत्तिक्षणमारभ्य तत्क्षणपर्यन्तं यावन्तः क्षणाः यो वा तावन्मात्रक्षणावस्थायी स्थूलकालस्तत्समुदाय एव वेत्यर्थः । एवं च क्षणचतुष्टयं तदधिककालानवस्थायी स्थूलसमयश्च योग्यता इति पर्यवसितम् (ग० २ पक्ष० पृ० २८ ) । इयं च योग्यता मिश्रमतानुसारिण्यनुमितिप्रयोजिका च अनुमित्सायोग्यता इति व्यवह्रियत इति बोध्यम् । अनुमित्सोत्पत्त्यनन्तरमनुमित्सानाशेपि सिद्धौ सत्यां यावत्कालमध्ये अनुमितिर्जायते तावानेव कालः (दीधि० २ पक्ष० पृ० १३६)।
६ साधकबाधकमानाभावः (चि० २ पक्ष० पृ० ३३ ) । इयं - योग्यता त्वनुमितौ प्रयोजिका पक्षतात्मकसंशययोग्यता इत्युच्यते । योग्यानुपलब्धिः-( अनुपलब्धिः ) [क] प्रतियोगितद्व्याप्येतरप्रतियोग्युपलम्भकयावत्सामग्रीविशिष्टप्रतियोग्युपलम्भाभावः (कु० ३ टी०)। [ख] अभावप्रत्यक्षसामग्रीविशिष्टप्रतियोग्यनुपलब्धिः (त० प्र० १)। अत्र अनुपलब्धौ योग्यत्वविशेषणदानेन अन्धकारे न घटाभावप्रत्यक्षा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org