________________
न्यायकोशः ।
1
उपलम्भरूपः प्रतियोगी यस्य उपलम्भाभावस्य सः तादृशप्रतियोगिकः उपलम्भाभावरूपः । तस्य तादृशप्रतियोगिकस्य भावः इति । तथा च उपलम्भाभावात् ( घटदर्शनाभावात् ) नास्ति घटः इति प्रत्यक्षं भवति । एवं च तादृशघटोपलम्भाभावो भूतले घटो नास्ति इत्याकारके घटाभावप्रत्यक्षे हेतुः इन्द्रियस्य सहकारी भवति इति समुदायार्थः ( त ० दी ० ) (नील० १ ० १८ ) ( मु० १ पृ० १२३ ) ( दि०) । [ग] प्रतियोगित्वापादनापादितोपलम्भप्रतियोगि कत्वम् (नील० १ पृ० १८ ) । यथा यद्यत्र घटोभविष्यत्तदा भूतलमिवाद्रक्ष्यत् दर्शनाभावात् नास्ति इति ( त० दी० १ पृ० १८ ) । तथा हि यत्रालोकसंयोगादिकं वर्तते तत्र यद्यत्र घटः स्यात्तर्द्युपलभ्येत इत्यापादयितुं शक्यते । तत्र घटाभावादेः प्रत्यक्षं भवति । अन्धकारे तु नापादयितुं शक्यते । तेन घटाभावादेरन्धकारे न चाक्षुषप्रत्यक्षम् । स्पार्शनप्रत्यक्षं तु भवत्येव आलोकसंयोगं विनापि स्पार्शनप्रत्यक्षस्यापादयितुं शक्यत्वात् । गुरुत्वपिशाचादिकं यदयोग्यम् तदुभावस्तु न योग्य: ( प्रत्यक्ष विषयः ) । तत्र गुरुत्वादिप्रत्यक्षस्यापादयितुमशक्यत्वात् । अतः गुरुत्वपिशाचाद्यभावानां जलपरमाणौ पृथिवीत्वाद्यभावस्य च न प्रत्यक्षम् इति ( मु० पृ० १२४–१२६ ) । अत्र योग्यानुपलब्धौ योग्यता च योग्यप्रतियोगिप्रकारकयोग्याधिकरणविशेष्यकोपलम्भप्रतियोगित्वम् इ
1
निर्वचनमपि चिन्तामणिकृन्मते संभवति ( राम ० १ पृ० १२३ ) । ३ योग्यमात्रप्रतियोगिकत्वे सति योग्यधर्ममात्रावच्छिन्नप्रतियोगिताकत्वम् । इयं योग्यता च संसर्गाभावनिष्ठा संसर्गाभावप्रत्यक्षे प्रयोजिका च प्रतियोगियोग्यता इति व्यवह्रियते । अत्र पदप्रयोजनम् । द्रव्यसामान्याभाववारणाय मात्र इति पदम् । गुरुत्ववद्धटात्यन्ताभाववारणाय विशेष्यदलम् । रूप गुरुत्व एतदन्यतरावच्छिन्नाभाववारणाय विशेष्यदले मात्र इति पदम् ( दि० १ ३ पृ० १२७ ) | योग्यमात्र प्रतियोगिकत्वे सतीत्युक्ते वायावुद्भूतरूपाभावस्य प्रत्यक्षमुपपद्यते । वायौ गुरुत्वाभावप्रत्यक्षापत्तिवारणं च भवति । रूपाभावस्य योग्यमात्र प्रतियोगिकत्वात् ।
Jain Education International
६७७.
For Personal & Private Use Only
www.jainelibrary.org