________________
६७६
न्यायकोशः। सेकनिरूपितकार्यकारणभावलक्षणसंसर्गस्य जले सत्त्वाद्योग्यता ( म० प्र० ४ पृ० ५६)। [छ ] बाधनिश्चयाभावो योग्यता इंति नव्या आहुः ( नील० ख० ४ पृ० ३२) । [ज ] परे तु असंसर्गग्रहः प्रतिबन्धकः । तदभावो योग्यता । सा च स्वरूपसती हेतुः न तु ज्ञाता इत्याहुः (न्या० म० ४ पृ० २३ )। तदर्थश्च पयसा सिञ्चतीत्यादौ पयःसेककरणतावन्न वा इत्यसंसर्गग्रहः शाब्दबोधप्रतिबन्धकः । तदभावस्तत्र योग्यता इति ( म०प्र० ४ पृ० ५७)। [झ ] अन्वयविरोधिरूपविरहो योग्यता इत्यन्य आहुः । [अ] अन्वयप्रयोजकरूपवत्त्वम् इति प्राभाकरा आहुः ( दीधि० प्रामा० )। सेकान्वयप्रयोजकं द्रवद्रव्यत्वं जलेस्तीति तद्योग्यम् । वह्नौ च नास्तीति तदयोग्यम् इति प्राभाकराभिप्रायः (न्या० म० पृ० २९ )। [ट ] अपरे तु तद्धर्मावच्छिन्ने तद्धर्मावच्छिन्नरूपवत्त्वम् इत्याहुः (मा० श०) (भा० प० श्लो०८४)। अत्र नीलकण्ठ आह एकपदार्थे अपरपदार्थवत्त्वं योग्यता इति मते संशयनिश्चयसाधारणतज्ज्ञानत्वावच्छिन्नशाब्दधीहेतुः । बाधनिश्चयाभावो योग्यता इति नवीनमते तु स्वरूपसत्येव योग्यता तद्धेतुः इति (नील०ख०४ पृ० ३२ )।[3] केचित्तु तत्सजातीये तत्सजातीयस्य संसर्गनिश्चयः इत्याहुः । अस्ति च पयसा सिञ्चतीत्यादौ प्रकृतसेकसजातीयेतरकरणसेके प्रकृतपयःकरणकत्वसजातीयस्य पयःकरणकत्वस्य संसर्गनिश्चयः । वह्निना सिञ्चतीत्यादौ तु सेकसजातीये कापि सेके वह्निकरणकत्वसजातीयस्य कस्यापि वह्निकरणकत्वस्य संसर्गनिश्चयो नास्ति। बाधितत्वात् (मा०श०)। २ [क] प्रतियोगितद्व्याप्येतरयावत्तदुपलम्भकसमवहितत्वम् (मु० म० १)। न्यायमते योग्यानुपलब्धिरभावप्रत्यक्षे इन्द्रियस्य सहकारिणी। न तु भट्टमते इव प्रमाणान्तरम् । तथा च इयं योग्यता प्रतियोग्युपलम्भाभारात्मकानुपलब्धिनिष्ठा अनुपलब्धियोग्यता इति व्यवह्रियते । [ख] चिन्तामणिकृन्मतेन च प्रतियोगिसत्त्वप्रसञ्जनप्रसञ्जितप्रतियोगिकत्वम् । तदर्थश्च प्रतियोगिनः घटादेः सत्त्वस्य यत्प्रसञ्जनम् आपादनम् । यद्यत्र घटः स्यात् इत्याहार्यारोप इत्यर्थः । तेन प्रसञ्जितः आपादितः । तद्युपलभ्येत इति भूतलमिवाद्रक्ष्यदिति वा आपादित, इत्यर्थः । एतादृशः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org