________________
न्यायकोशः।
६७३ तत्समवेतगुणकर्मसामान्यविशेषाणां समवायस्य च सर्वदा प्रत्यक्षं जन्यते। युञ्जानाख्ययोगिनन्तु चिन्तया प्रत्यक्षं जन्यते (मु० १ ) (त० कौ० ) इति । तथा च एकत्र ध्यानापेक्षा अन्यत्र तु ध्यानापेक्षा नास्ति
(त० व०) (प्रशस्त० गु० पृ० ४३ )। योगरूढम्-( नाम शक्तपदं वा) [क] यत्र पदे अवयवशक्तिविषये
समुदायशक्तिरप्यस्ति तत् (मु० ४ पृ० १७९ )। अत्र व्युत्पत्तिः योगो रूढिश्चैते एकसजातीयार्थबोधकतया स्तोस्य ( अच् ) इति । [ख] अवयव-समुदाय एतदुभयशक्तिकमेकजातीयार्थप्रतिपादकं पदम् ( सि० च० ख० ४ पृ० ३१)। [ग] योगरूढिभ्यां परस्परसहकारेणार्थप्रतिपादकं पदम् । यथा पङ्कजादिपदम् (नील० ४ पृ० ३१)। एवम् धेनुपदं च ( त० प्र० ४ पृ० ३२ )। अत्र च पङ्काजायते इत्यवयवशक्त्या पङ्कजनिकर्तृत्वेन . रूढिशक्त्या च कमलत्वेन कमलं बोधयतीति पङ्कजपदं योगरूढम् ( सि० च० ४ पृ० ३१ )। तथा च समुदायशक्त्या ( रूढिशक्त्या ) उपस्थिते पद्मे अवयवार्थपङ्कजनिकर्तुरभेदेनान्वयो भवति इति मणिकृन्मतम् ( श० प्र० श्लो० २७ )। तेन पङ्कजातेपि कुमुदादौ स्थलपने च न पङ्कजपदप्रयोगप्रसङ्गः इति मणिकृन्मताभिप्रायः (त० प्र० ४ पृ० ३१)। अत्रायं विशेषो ज्ञेयः। यत्र रूढ्यर्थस्य बाधः प्रतिसंधीयते कुमुदत्वेन बोधे च तात्पर्यम् तत्र लक्षणया कुमुदादेर्बोधः। यत्र तु कुमुदत्वेन रूपेण बोधे न तात्पर्यज्ञानम् पद्मत्वस्य च बाधः तत्रावयवशक्तिमात्रेण कुमुदबोधनिर्वाहः । यत्र तु स्थलपद्मादाववयवार्थबाधः तत्र समुदायशक्त्या पद्मत्वेन रूपेण बोधः । यदि तु स्थलपनं विजातीयमेव तदा पङ्कजपदाल्लक्षणयैव स्थलपद्मबोधः (मु० ४ पृ० १८० ) इति । [घ] यन्नाम स्वावयववृत्तिलभ्यार्थेन समं स्वार्थस्यान्वयबोधकृत् तन्नाम योगरूढम् । यथा पङ्कज कृष्णसर्प अधर्म इत्यादिपदम् । तद्धि स्वान्तर्निविष्टानां पङ्कादिशब्दानां वृत्तिलभ्येन पङ्कजनिक दिना समं स्वशक्यस्य पद्मादेरन्वयानुभावकम् । पङ्कजम् इत्यादितः पङ्कजनिकर्तृ पद्मम् इत्यनुभवस्य सर्वसिद्धत्वात् । रूढपदात्त्वयं विशेषः । यद्रूढमपि मण्डपरथकारादिपदम् तत् योगार्थ८५ न्या को
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org